________________
षष्ठो वाद्याध्यायः
४८९ अथ घनवाद्यम् -
कांस्यजे घनवाद्ये स्यात्कांस्यमग्नौ सुशोधितम् । कांस्यजो वर्तुलस्तालः सपादद्वयङ्गुलाननः ॥ ११७० ।। मध्योऽस्याङ्गुलविस्तारो निम्नो रन्धं च मध्यगम् । पादोनगुञ्जामात्रं स्यात्पिण्डस्तु यवमात्रकः ॥ ११७१ ।। सार्धाङ्गुलः स्यादुत्सेधः समाश्लक्ष्णशुभाकृतिः । कायों तथा यथा नादो भवेच्छ्रतिमनोहरः ॥ ११७२ ॥ नेत्रवस्त्राञ्चलायाणि रज्जूकृत्य निवेशयेत् । रन्धेऽयाणामनिर्गत्यै ग्रन्थि च रचयेद् दृढम् ।। ११७३ ॥ ईक्तालयुगं कृत्वा तालमेकमथाञ्चलैः । आवेष्टय तर्जनी वामामङ्गुष्ठेन च वेष्टनम् ॥ ११७४ ॥ आक्रम्य तलमध्यस्थं धृत्वा तियेङ्मुखीकृतम् ।। शेषाङ्गुलीः प्रसार्योंदिक्षिणेन तु पाणिना ॥ ११७५ ।। तालमन्यतरस्यान्तलम्बमानाचलावलिम् । तर्जन्यङ्गुष्ठयोरग्रभागतस्तिर्यगाननम् ॥ ११७६ ।। धृत्वा तस्याग्रभागेण मध्यमन्यस्य ताडयेत् । अल्पनादो भवेच्छक्तिभूरिनादः शिवो भवेत् ॥ ११७७ ॥
(सु०) चर्मदोषानाह-मेद इति । मेदसा दूषितम् , मेदो धातुविशेषः । जरा गर्भवेष्टनं, तया आक्रान्तम् । क्लिन स्तिमितम् । काकमुखाहतं शिथिलम् । अग्निना धूमेन वा नष्टम् । जीर्णं जरठम् ॥ ११६८-११६९ ॥
इति चर्मदोषाः
इत्यवनद्धवाद्यप्रकरणम् । (क०) अथ घनवाद्यं लक्षयितुमाह-अथेति । कांस्यजमिति धनवाद्यस्य सामान्यलक्षणम् । तच्च कांस्यममौ सुशोधितं ग्राह्यमिति
62
Scanned by Gitarth Ganga Research Institute