________________
४८८
संगीतरत्नाकरः बद्धस्य वृषभस्यास्य चर्मणा वध्रकल्पना ॥ ११६५ ॥ कुन्देन्दुहिमसंकाशमाम्रपल्लवसंनिभम् । स्नायुमांसविहीनं च चर्म गोसंभवं च यत् ॥ ११६६ ॥ शीतोदके निशामेकां वासयित्वा समुद्धृतम् । वाद्यावनहनार्थ तद् ग्राह्यं श्रीशाङ्गिणोदितम् ॥ ११६७ ॥
इति चर्मगुणाः मेदोदुष्टं जराक्रान्तं क्लिन्नं काकमुखाहतम् । अग्निधृमहतं जीर्ण न वाद्ये चर्म कर्मकृत् ।। ११६८ ।। गुणै रितरोदारैर्यस्य नद्धं जगत्त्रयम् । अवनद्धमिदं तेन शाङ्गदेवेन कीर्तितम् ।। ११६९ ॥
इति चर्मदोषाः
इत्यवनद्धवाद्यप्रकरणम् ।
___ (सु०) चर्मगुणानाह- पाण्मासिकस्येति । षण्मासोत्पन्नस्य वत्सस्य तर्णकस्य चर्म पुटबन्धने स्यात् । अन्ये तु द्विवत्सरस्याहुः । तत् लक्ष्येषु न दृश्यते । पुटं वाद्यमुखं वृद्धवृषभस्य चर्मणा वध्रा कार्या । कुन्देति । कुन्दादिवत् उज्ज्वलं, माकन्दपल्लववत् आताम्र वा स्नायुमांसाभ्यां विहीनं गोचर्म, तदेकस्यां निशायां शीतलोदके स्थापयित्वा, उद्धृतं सत् वाद्यपिधानार्थ ग्राह्यम् ॥ -१९६४-११६७ ॥
इति चर्मगुणाः (क०) चर्मदोषानाह--- मेदोदुष्टमित्यादि । अथावनद्धवाद्यप्रकरणं निगमयितुमाह-- गुणरित्यादि ॥ ११६८-११६९ ॥
__ इति चर्मदोषाः इत्यवनवाद्यप्रकरणम् ।
Scanned by Gitarth Ganga Research Institute