SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४८७ षष्ठो वाद्याध्यायः कोमलत्वं व्रणग्रन्थिभेदान्दारुषु वर्जयेत् । इति काष्ठदोषा: पाण्मासिकस्य वत्सस्य चर्म स्यात्पुटबन्धने ॥ ११६४ ।। अन्ये द्विवत्सरस्याहुस्तन्न लक्ष्येषु दृश्यते । मुक्तावनुक्तौ वा विकल्पेन दारुरचितानां सर्वेषां खादिरो रक्तचन्दनो वा प्रकृतिर्ज्ञातव्या । यथायोगं, यथासंख्य: । एवं पटहसंबन्धिनो मर्दलसंबन्धिनश्च पाटा:। नीरसायाम् ; अम्बुशून्यायाम् , उच्छ्रितभूजातायां, जीर्णात् पुराणात् सर्वदा पवनेन आन्दोलितात तरो: निर्भिय सित्वा गर्भ उत्सारिते त्यक्ते सति शेषात् तस्मात् वाद्यानि कारयितव्यानि । पूर्व इति । पूर्वस्मिन् प्ररोहे छिने सति प्ररूढात् अन्यस्मात् प्ररोहात् जातं वाद्यं प्रशस्तम् । गर्भोत्सारणमिदं वेणुवाचं विना अन्यत्र ज्ञातव्यम् । तरुजाती: कथयति-तरूणामिति । तासां लक्षणमाह -तिस्रेति। तरूणां तिस्रो जातयः ; पित्तला, वातला, श्लेष्मला चेति। तत्र तिसृणां मध्ये नीरसभूमौ जाता पित्तला, अल्पतररसभूमौ जाता वातला, जलाशयसमीपस्थरससंप्लुतभूमौ जाता श्लेष्मला इति । तासु पित्तला अत्युत्तमा, वातला अधमा, श्लेमला तु वा इति । छेदात्पूर्व शुष्को वृक्षोऽपि वर्ण्य इति १११९७-११६३॥ इति काष्ठलक्षणम् (क०) दारुदोषानाह-कोमलेत्यादि । ११६३. ॥ इति काष्ठदोषाः (सु०) काष्ठदोषानाह-कोमलत्वमिति । कोमलत्वं ; सुकुमारत्वम् । वर्ण छिद्रं, प्रन्धिः शाखासंधिः, भेदो मिन्नत्वं, एते दोषा दारुषु वर्जनीया:॥११६३-।। इति काष्ठदोषाः (क०) चर्मणो गुणानाह-पाण्मासिकस्येत्यादि ॥ -११६४-- ११६७ ।। इति चर्मगुणाः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy