________________
४८६
संगीतरनाकरः सर्वेषु स्युर्यथायोगं पाटाः पाटहमार्दलाः । नीरसोच्छूितभूर्जाताज्जीर्णाद्वाताहतात्तरोः ॥ ११५८ ।। निर्भिद्योत्सारिते गर्भे शेषाद्वाद्यानि कारयेत् । पूर्वपरोहे छिन्नेऽन्यो यः प्ररोहः प्ररोहति ॥ ११५९ ।। तदुद्भवद्रुमोद्भूतं वाद्यं सर्व प्रशस्यते । गर्भस्योत्सारणं त्वेतद्वेणोरन्यत्र पादपे ॥ ११६० ॥ तरूणां जातयस्तितः पित्तला वातला तथा । श्लेष्मला चेति तत्र स्यात्पित्तला नीरसक्षितौ ॥ ११६१ ।। अत्यल्परसभूजाता वातला श्लेष्मला पुनः। जलाशयसमीपस्थरससंप्लुतभूमिजा ।। ११६२ ।। पित्तलात्युत्तमा जातिर्वातला त्वधमा भवेत् । श्लेष्मला वय॑ते शुष्के वृक्षेऽपि च्छेदनात्पुरा ॥ ११६३ ।।
इति काष्ठलक्षणम् यथानुक्तं दारूणामुक्तिर्यथा पटहादौ खदिरादेः । अनुक्तौवेति । यथाभिधानं दारुविशेषाणामनभिधानं वा, यथा कुडुक्कादीनाम् । तत्रोभयत्रापि दारववाद्यानां दारुणा निर्मितानां पटहादीनां वाद्यानां प्रकृतित्वेनेति शेषः । खदिरो रक्तचन्दनेन विकल्पितो ज्ञेयः । खदिरो वा रक्तचन्दनो वा कर्तव्य इत्यर्थः । सर्वेष्विति । सर्वेषु तुडुक्कादिषु वाद्येषु । पाटइमार्दलाः पाटा इति । पाटहाः कखादयः षोडश । मार्दला अपि मतान्तरोक्तैः सह तद्ध्यादयः षोडश । यथायोगं स्युरिति । यैः पाटैर्यस्य वाद्यस्य स्फुटमनुकरणं भवति तत्र प्रयोज्या इत्यर्थः ॥ ११५७-११६३ ॥
इति काष्ठलक्षणम् (सु०) वाद्यकाष्ठविशेषानाह-उक्ताविति । कारणभूतानां काष्ठाना
Scanned by Gitarth Ganga Research Institute