________________
४८५
षष्ठो वाद्याध्यायः क्षिप्तोऽधो वध्रवलये निवेश्यावर्तितर्मुहुः । द्विषद्वित्रासजननो निःसाणः शाङ्गिणोदितः ॥ ११५४ ॥ चार्मणेनास्य कोणेन सद्वितीयस्य वादनम् । दृढशब्देन भीरूणां भिनत्ति हृदयान्ययम् ॥ ११५५ ॥ स्यादस्मायुद्धवीराणां रोमाञ्चोपचितं वपुः ।
इति निःसाणलक्षणम् निःसाणवत्तुम्बकी स्यात्ततोऽल्पा गात्रनादयोः ॥ ११५६ ।।
___इति तुम्बकीलक्षणम् उक्तौ प्रकृतिदारूणामनुक्तौ वा विकल्पतः ।
ज्ञेयो दारववाद्यानां खदिरो रक्तचन्दनः ॥ ११५७ ।। ताम्रजो मध्यमः, लोहजोऽधमः । एकमुखो महान् स्थूल: मुखे स्वल्पः, अधोऽर्धयवाकृति: ; अर्धयवप्रमाणाकाराधोभागः । कांस्यपात्रसमूहैः पूर्वे मध्ये महिषचर्मणा आच्छादितमुखः, तस्य नि:साणस्य रन्ध्रे विन्यस्तै: चर्मवलये निवेश्य मुहुर्मुहुः आवर्तितैः द्विगुणितैः वध्रकैः बद्धं चर्म यस्य, स वैरिवित्रासकारी नि:साणः । सद्वितीयस्यास्य चर्मसंबन्धिना कोणेन वादनं दृढशब्देन यदा क्रियते तदायं निःसाणः भीरूणां हृदयानि भिनत्ति । अस्मात् युद्धवीराणां रोमाञ्चितं वपुश्च स्यात् ॥ ११५२-११५५- ॥
इति निःसाणलक्षणम __ (सु०) तुम्बकी लक्षयति-नि:साणवदिति । निःसाणात् गात्रे नादे च किंचिदल्पा तुम्बकी स्यात् ॥ -१११६ ॥
____ इति तुम्बकीलक्षणम् (क०) अथावनद्धवाद्यप्रकृतिभूतं दारुविशेषं तद्गुणांश्वाहउक्तावित्यादि । प्रकृतिदारूणामुक्ताविति । यत्र वाद्यस्य प्रकृतित्वेन
Scanned by Gitarth Ganga Research Institute