________________
४८४
संगीतरनाकरः वितस्तित्रयदैर्ध्या स्याब्रेरी ताम्रण निर्मिता ॥ ११४८ ।। चतुर्विंशत्यङ्गुले च वदने वलयान्विते । तस्याः सवलये चर्मच्छन्ने छिद्रसमन्विते ॥ ११४९ ।। रज्ज्वा नियन्त्रिते गाढं मध्ये सूत्रेण बन्धनम् । दक्षिणस्थेन कोणेन वामहस्तेन ताडनात् ।। ११५० ।। उद्भटो भवति ध्वानो गम्भीरोऽरिभयंकरः । तंकारः पाटवर्णोऽस्यां मुख्यो निःशङ्ककीर्तितः ॥ ११५१ ॥
इति भेरीलक्षणम् कांस्यजस्ताम्रजो लौहो वोत्तमो मध्यमोऽधमः । : एकवक्त्रो महान्वको स्वल्पोऽधोऽर्धयवाकृतिः ॥ ११५२ ॥ भृतगर्भः कांस्यपात्रभारैमहिषचर्मणा ।
छन्नाननो बद्धचर्मा तद्रन्ध्रन्यस्तवध्रकैः ।। ११५३ ।। दिनीयः । अत्र मेघगर्जितगम्भीरध्वनिवत् घोंकारस्य मुख्यत्वम् । अयं दुन्दुभिः विजययात्रायां देवतालये मङ्गले च वाद्यते ॥ -११४५-११४७- ॥
____ इति दुन्दुभिलक्षणम् (सु०) मेरी लक्षयति-वितस्तिरिति । वितस्तित्रयमिता दीर्घा ताम्रण निर्मिता भेरी वलयसंयुते मुखे यस्याः, चतुर्विशत्य गुले कार्ये । वलयद्वयं च चर्मणा आच्छादितं च्छिद्रसहितं रज्जुबद्ध कार्यम् । मध्ये च सूत्रेण बन्धनं कार्यम् । दक्षिणहस्तेन कोणेन वामहस्तेन च घातात् अरिभयंकरः गम्भीरः अत्युद्भटश्च ध्वानो भवति । अस्यां तंकार: पाटवर्णो मुख्यो भवति ॥ -११४८-११५१ ॥
इति भेरीलक्षणम् (सु०) नि:साणं लक्षयति-कांस्यज इति । कांस्यजो नि:साण उत्तमः,
Scanned by Gitarth Ganga Research Institute