________________
४८३
षष्ठो वाद्याध्यायः वादनं करयुग्मेन शार्ङ्गदेवेन कीर्तितम् । तदादोंदेति वर्णाः स्युखिपुरा चात्र देवता ॥ ११४३ ॥ एकादशाङ्गुलमुखी विंशत्यगुलदैर्ध्यभाक् । मुखार्धमानमध्यासौ मध्ये चाचनिकायुता ॥ ११४४ ॥ तदर्धवर्णसंयुक्ता त्रिकुल्या चोच्यते बुधैः ।
इति त्रिवलीलक्षणम् आम्रद्रुमसमुद्भूतो महागात्रो महाध्वनिः ॥ ११४५ ॥ कांस्यभाजनसंभारगर्भो वलयवर्जितः । चर्मनद्धाननो बद्धो वधैर्गाढं समन्ततः ।। ११४६ ।। दृढचार्मेण कोणेन वाद्यो वर्णेन दुन्दुभिः । मेघनिर्घोषगम्भीरघोंकारस्यात्र मुख्यता ॥ ११४७॥ मङ्गले विजये चैव वाद्यते देवतालये ।
इति दुन्दुभिलक्षणम् रन्धैन्यस्तैर्गुणैः मध्यभागे वेष्टनं काम् । सूत्ररज्जुना कृतहस्तप्रमाणा स्कन्धावलम्बिनी कच्छा कार्या, करद्वयेन च वादनम् । तदादोंदे इत्यादयो वर्णाः । अत्र देवता च त्रिपुरा । अस्यास्त्रिवल्या: लक्षणविशेषेण नामान्तरमाह-एकादशेति । एकादशाङ्गुलं मुखं यस्याः । विंशत्यगुलदीर्घा मुखस्य, अर्धमानं सार्धपञ्चागुलं तावत्प्रमाणं मध्यो यस्याः, एवंविधलक्षणयुक्ता अञ्चनिकया युता च त्रिवली वर्णसंयुक्तेत्याहुः । इयमेव त्रिकुल्येत्युच्यते॥-११४०-११४४-॥
इति त्रिवलीलक्षणम् (सु०) दुन्दुभिं लक्षयति-आग्नेति । आम्रद्रुमोद्भवः स्थूलध्वनिः; स्थूलरवः ; कांस्यभाजनानां समूहो गर्भे यस्य, वलयहीनः, चर्मणा आच्छादितमुखः, वधैः परितो बद्धः, दृढेन चर्मकृतेन कोणेन वर्णेन च दुन्दुभि
Scanned by Gitarth Ganga Research Institute