________________
४८२
संगीतरत्नाकरः ससूत्रकटकं रन्ध्रद्वयं कण्ठे च बिभ्रती । चर्मणानद्धवदना झल्लरी परिकीर्तिता ॥ ११३८ । वामहस्तधृता सा च वाद्या दक्षिणपाणिना ।
___ इति झल्लरीलक्षणम् स्यात्तदर्धपलो भाणः परिधौ द्वादशाङ्गुलः ॥ ११३९ ॥ अन्यत्तु झल्लरीलक्ष्म तस्य श्रीशाङ्गिणोदितम् ।
इति भाणलक्षणम् सप्ताङ्गुलमुखद्वन्द्वात्रिवली हस्तदैर्ध्यभाक् ॥ ११४० ॥ मुष्टिग्राह्यश्व मध्योऽस्या वदने कवलावते । कवले लोहमण्डल्यौ सप्तरन्ध्र पृथक्पृथक् ॥ ११४१॥ रन्ध्रन्यस्तैर्गुणैर्बद्धो मध्ये गाढं च वेष्टनम् । मूत्ररज्ज्वा हस्तमात्रा कच्छा स्कन्धावलम्बिनी ।। ११४२ ॥
द्वादशाङ्गुला, परिधौ अष्टादशाङ्गुलमिता, समविग्रहवती सूत्रकटकयुक्तं कण्ठे रन्ध्रद्वयं दधाना चर्मणा आच्छादितमुखी झल्लरी स्यात् । सा वामहस्तेन धृत्वा दक्षिणपाणिना वादनीया ॥ ११३७-११३८- ॥
इति झल्लरी
(सु०) भाणं लक्षयति-स्यादिति । तदर्धपल: ; सार्धद्वादशपलपरिमित: । परिधौ ; द्वादशाङ्गुल: । अन्यत्तु लक्ष्म झल्लरीवत् ॥-११३९-११३९-॥
___ इति भाणलक्षणम् (सु०) त्रिवली लक्षयति-सप्ताङ्गुलेति । सप्ताङ्गले द्वे मुखे हस्तौ दैर्घ्यम् । एवंविधा त्रिवली भवति । अस्याः त्रिवल्या मध्यो मुष्टिग्राह्यः, वदने चर्मनद्धे मुखे कवलेनावृते कार्ये सप्तरन्ध्र, लोमहमण्डल्यौ कवले इत्युच्येते ।
Scanned by Gitarth Ganga Research Institute