________________
षष्ठो वाद्याध्यायः
शित्यङ्गुला दैर्घ्य परिधौ त्रिंशदङ्गुला । समकाया सेल्लुका स्याद्वीजकाष्ठेन निर्मिता ॥ ११३२ ॥ दशाङ्गुले मुखे तस्याः परैस्त्वेकादशाङ्गुले | उक्ते न बन्धनोद्दल्यौ ताभ्यामेकाङ्गुलाधिके ।। ११३३ ॥ वल्लीजं तर्जनीस्थौल्यं मुखयोर्बलयद्वयम् । सरन्ध्रषट्कं रन्ध्रस्थरज्जुभिर्गायन्त्रितम् ||११३४ | एकाङ्गुलाधिकं तच्च वक्त्राभ्यां वदनं पुनः । त्रिगर्भितं वामं वामहस्तेन वादयेत् ।। ११३५ ॥ मुखं दक्षिणपाणिस्थकुडुपेन तु दक्षिणम् । मुखे वामे तु का धिकारो दक्षिणे मुखे ।। ११३६ ॥ इति सेल्लुकालक्षणम्
पलैः स्यात्पञ्चविंशत्या दैघ्र्ये तु द्वादशाङ्गुला | अष्टादशाङ्गुलमिता परिधौ समविग्रहा ।। ११३७ ।।
४८१
(सु०) सेल्लुकां लक्षयति-- षड्डिशतीति । दैर्घ्य ; षडूिंशत्यगुला, परिधौ ; वर्तुलप्रमाणौ त्रिंशदङ्गुला च, समानदेहा बीजकाष्ठेन असनकाष्ठेन निर्मिता सेल्लुका स्यात् । तस्या मुखद्वयं दशाङ्गुलम् | अन्यैराचार्यैः एकादशाङ्गुलमित्युक्तम् । बन्धनमुद्दली च ताभ्यां मुखाभ्यामेकेनाङ्गुलेनाधिके, वलयद्वयं वयुतं मुखयो: स्थाप्य रन्ध्रषट्केण युक्तं, रन्ध्रस्थिताभी रज्जुभिर्गाढं बद्धाभ्यां वक्त्राभ्याम् एकेनाङ्गुलेनाधिकमिति वलयद्वयं विशेषणम् । तन्त्रिका गर्भितं मुखं वामहस्तेन वादयेत् । दक्षिणहस्तस्थकोणेन दक्षिणं मुखं वादयेत् । वामे मुखे झेंकार:, दक्षिणे मुखे तु धिकार उत्पद्यते ॥ ११३२-११३६ ॥ इति सेल्लुकालक्षणम्
(सु०) झल्लरीं लक्षयति - पलैरिति । पलैः पञ्चविंशतिप्रमाणा, दैये
61
Scanned by Gitarth Ganga Research Institute