________________
४८०
संगीतरत्नाकरः कांस्याद्गोशृङ्गतो दन्तिदन्ताद्वा डक्कुली भवेत् । दैर्ये पश्चाङ्गुला वक्त्रे तस्याश्च चतुरङ्गुले ११२६ ।। मेषपायुद्दलीबद्ध व स्वचक्रसमन्विते । चक्रे च कांस्यजे ताम्रमये वा लोहजे पृथक् ॥ ११२७ ॥ पञ्चरन्ध्रे तथोदल्यौ रन्धविन्यस्तदोरकैः । सौत्रैर्गा निबध्येते मध्ये मूत्रेण वेष्टितम् ॥ ११२८ ॥ नातिश्लथं नातिगाढं मध्यं सूत्रे त्वनामिकाम् ।। निधाय मध्यतर्जन्यौ विवृते चक्रसंयुते ॥ ११२९ ॥ कृत्वाङ्गुष्ठं त्वन्यचक्रे न्यस्याय मदनाञ्चिताम् । विधायाश्चनिकामेकां तां दुंदुमिति वादयेत् ॥ ११३० ॥ तुंतुमित्यपरे प्राहुः पाटा मर्दलसंभवाः । यथासंभवमेतस्यां शार्ङ्गदेवेन कीर्तिताः ॥ ११३१ ।।
इति डक्कुलीलक्षणम् (सु०) डक्कुली लक्षयति-कांस्यादिति । कांस्येन गोशृङ्गेण हस्तिदन्तेन वा डक्कुली कार्या | तस्या दैर्ध्य पञ्चाङ्गुलम् , मुखद्वयं चतुरङ्गुलम् । मेषस्य अजस्य वा पारिका कृत्तिः, तया निर्मितया उद्दल्या बद्धे मुखद्वये चक्रसमन्विते, चक्रद्वयं कांस्येन ताम्रण लौहेन वा पञ्चरन्ध्रसंयुक्तं कार्यम् । तथा द्वे उद्दल्यौ छिद्रे न्यस्ते, सौत्रैः; सूत्रकृतैः दोरकैः गाढं बन्धनीयम् । वादनप्रकारमाह-मध्य इति । अन्त:सूत्रेण वेष्टितमतिगाढमतिश्लथत्वहीनम् , अनामिकाम् , मध्यसूत्रेषु निधाय मध्यमातर्जन्यौ द्वे अमुल्यौ विवृते असंयुक्ते कृत्वा, अशष्टमन्यस्मिन्वक्त्रे न्यस्य स्थापयित्वा, मदनाञ्चितां; सिक्थकेन अञ्चितां लिप्तामेकामञ्चनिकां कृत्वा, ताम् ; उद्दलीं दुंदुमिति शब्देन वादयेत् | अपरे तुंतुमिति मर्दलसंभवा: पाटा: प्राहुः ॥ ११२६-११३१ ।।
इति डक्कुलीलक्षणम्
Scanned by Gitarth Ganga Research Institute