________________
४७९
षष्ठो वायाध्यायः डक्कैच मण्डिडका स्यात्कि त्वस्याः षोडशाङ्गुलम् । दैर्घ्यमष्टाङ्गुलौ गर्भो स्यातां वदनयोयोः ।। ११२० ॥ षोडशामुलको मध्यपरिधिर्नात्र चार्गला । न च कच्छोत्कक्षकस्तु मध्ये स्यादश्चनीद्वयम् ॥ ११२१ ॥ उत्कक्षं चाश्चनीद्वन्द्वं वामाङ्गुष्ठागुलित्रयात् ।। धृत्वा संपीड्य तर्जन्या मण्डलीप्रान्तमाननम् ॥ ११२२ ॥ अस्या दक्षिणजानुस्यं हन्याद्दक्षिणपाणिना । उत्कर्श मणिबन्धोर्ध्वं यद्वान्यस्याश्चनीद्वयम् ।। ११२३ ॥ कनिष्ठानामिकाङ्गुष्ठैः संयुज्यापीड्य मण्डलीम् । तर्जेन्या मध्यया वाथ हस्तेनान्येन वादयेत् ११२४ ॥ वदन्ति वादनं तस्याः करेण कुडुपेन वा ।। चर्यागाने च पूजायां शक्तेः सा विनियुज्यते ॥ ११२५ ॥
इति मण्डिडकालक्षणम्
(सु०) मण्डिडक्कां लक्षयति-डकैवेति । पूर्वोक्तलक्षणा डक्कैव मण्डिडका भवति । अयं तु विशेष:-- दैर्घ्य षोडशागुलं वदनद्वये, गर्भद्वयमष्टाङ्गुलम् , मध्यपरिधिः षोडशाङ्गुल:, अर्गलाश्च न सन्ति, न च कच्छा, मध्ये तु पुनः ऊर्ध्वकक्षमञ्चनीद्वयं स्यात्, एवंविधमञ्चनीद्वयं वामागुष्ठेन अगुलीत्रयेण च धृत्वा, अस्या आननं दक्षिणजानुनि स्थितं दक्षिणहस्तेन घातयेत् । वादने प्रकारान्तरमाह-उत्कक्षमिति । ऊर्ध्वकक्षमञ्चनद्वयं मणिबन्धे ऊर्ध्वप्रदेशे निक्षिप्य, कनिष्ठानामिकागुष्ठैः संयोज्य, तर्जनीमध्यमाभ्यां मण्डली पीडयित्वा, अन्यहस्तेन वादयेत् । प्रबन्धाध्यायोक्तचच्चरीगाने, शक्ते: पूजायां च सा विनियुज्यते ॥ ११२०-११२५ ॥
इति मण्डिखकालक्षणम्
Scanned by Gitarth Ganga Research Institute