________________
संगीतरनाकरः वितस्तिमात्रं दैर्घ्यं स्यान्मध्यः किंचित्कृशो भवेत् । मुखे त्वष्टाङ्गुलैः पिण्डोऽर्थाङ्गुलस्तन्त्रिकाद्वयम् ॥ १११३ ॥ मुखे मुखे शङ्कवश्च चत्वारस्ताम्रनिर्मिताः । तेषामधो द्वावूर्व द्वौ तन्त्रीबन्धनसिद्धये ॥ १११४ ॥ तन्त्र्योस्तृणशलाकां च निदध्याद्धनिपुष्टये । अन्यल्लक्ष्म हुडुक्कावद्यस्याः पाटाक्षराण्यपि ॥ १११५ ॥ स्याद्दशाङ्गुलदैर्येण कुडुपेन तु वादनम् । निःशङ्कशाङ्गदेवेन डक्का सा परिकीर्तिता ।। १११६॥ अन्येऽस्या वादनं पाहुः करेण कुडुपेन च । हस्तघातेन डंकारो वादने कुडुपेन तु ॥ १११७ ॥ घटस्ततो डगिश्चेति मुखान्पाटान्वदन्त्यमी ।। नगौ खकरटा वर्णा मुख्याः प्रोक्ताः परैरिह ॥ १११८ ।। अस्यां च मूरयः प्राहुर्देवतां विन्ध्यवासिनीम् । अगुलोना मध्यमा सा द्वयगुलोना कनीयसी ॥ १११९ ॥
इति डकालक्षणम् (सु०) डक्कां लक्षयति-वितस्तिमात्रमिति । दैर्ध्य वितस्तिप्रमाणम् , मध्यः किंचित् कृशः क्षामः, अष्टाङ्गुलप्रमाणं मुखद्वयम् , द्वे तन्त्र्यौ, मुखे मुखे, प्रतिमुखम् , चत्वारः ताम्रनिर्मिताः शङ्कवः, तेषां शङ्नामधःप्रदेशे द्वौ, ऊर्ध्वं च द्वौ तन्त्रीबन्धनार्थ, तन्त्रीद्वयं नादवृद्धयर्थं तृणशलाका क्षेप्तव्या, अन्यत् लक्ष्म कुडुक्कावत् । कुडुपेन च वादनं यस्याः, सा डक्का । केचित् करेण कोणेन वादनमाहुः । करेण घाते क्रियमाणे रुंशब्द उत्पद्यते । कोणेन तु घटादयः, अमून् पाटमुखान् वदन्ति । अन्यैः नगखकरटा वर्णा इह मुख्या इति वदन्ति । अस्यां डक्कायां विन्ध्यवासिनी देवतामाहुः । पूर्वोक्तप्रमाणा डक्का उत्तमा, अङ्गुलन्यूना मध्यमा, द्वयगुलन्यूना कनिष्ठेति ॥ १११३-१११९ ॥
इति डकालक्षणम्
Scanned by Gitarth Ganga Research Institute