SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः वितस्तिमात्रदैर्ध्यः स्यादष्टाङ्गुलमुखद्वयः । यो यस्य मण्डलीयुक्ते मुखे बद्धे च चर्मणा ॥ ११०९ ॥ त्रिवलीवरक्षाममध्यो निबद्धः मूत्रदोरकैः । मध्ये च गाढतां नीतावश्चन्यौ वादनाय च ॥ १११० ॥ भवेतां प्रान्तसंलग्नसमृन्मदनगोलकैः ।। असौ डमरुको मध्ये धृत्वा इस्तद्वयेन च ॥ ११११ ॥ डघवर्णो वादनीयः प्रोक्तो निःशङ्करिणा । अन्यैः कखरटा वर्णाः प्रोक्ता डमरुकेऽधिकाः ॥ १११२ ॥ इति डमरुकलक्षणम् कठिनया वादनरज्ज्वा संयुतं भवेत् । पूर्वप्रकारेण विग्निकाः कर्पराः प्रतिमुखं सप्त सप्त कर्तव्याः । अस्या वादनप्रकारमाह-पादोनेति । चतुर्थाशोनहस्तप्रमाणां कच्छां चिपिटरज्जुं स्कन्धे निवेश्य वादनं कर्तव्यम् । इयं च रुंशब्दमुत्पादयति तस्मात् रुक्षेत्युच्यते । मतङ्गेन कतदवनमरवा वर्णा उक्ताः । अन्यैः करगघटनखहा उक्ता: । अस्मिंश्च वाद्यशास्त्रे विग्निकाशब्देन कर्परा उच्यन्ते ॥ -११०२-११०८ ॥ इति रुजालक्षणम् (सु०) डमरुकं लक्षयति-वितस्तिरिति । वितस्तिप्रमाणदेये, अष्टागुलप्रमाणमुखद्वयं च, यस्य मुखद्वयं चर्मणा युक्तं मण्डलीयुक्तं च भवेत्, वक्ष्यमाणत्रिवलीवत् क्षामः कृशो मध्यप्रदेशो यस्य, मध्ये ; मध्यप्रदेशे, गाढैः दोरकैरुपनिबद्धः द्वे अञ्चन्यौ वादनीयस्य प्रान्ते संलग्नः समृन्मृदा सहितः मदनस्य सिक्थकस्य गोलको ययोः स डमरुकः । मध्ये हस्तद्वयेन धृत्वा डघवर्णयुतो वादनीयः । अन्यैः कखरटा वर्णा अधिका: प्रोक्ताः ॥ ११०९-१११२ ॥ इति डमरुकलक्षणम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy