________________
४७६
संगीतरनाकरः अष्टादशाङ्गुला दैध्ये दृढा रुझा समाकृतिः ॥ ११०२ ॥ एकादशाङ्गुले तस्या वदने कुण्डलीयुते । नद्रव्ये चर्मणा वामवक्त्रान्तःकुण्डलीद्वयम् ॥ ११०३ ॥ तत्रैका वक्त्रमात्रा स्यादपरा चतुरगुला। कुण्डल्योरन्तराले स्यान्नलिका स्नायुनिर्मिता ॥ ११०४ ॥ सैकच्छिद्रं वामवक्त्रं सूत्रतन्त्वञ्चनीयुतम् । पूर्ववद्विग्निकाः कार्या वक्त्रयोः सप्त सप्त च ॥ ११०५ ।। पादोनहस्तमात्रां च नागपाशवतीं दृढाम् । कच्छां स्कन्धे निवेश्यास्या वादनं वेदितं बुधैः ॥ ११०६ ।। रुंकारजननादुञ्जा सा भवेद्भुङ्गिदैवता ।। मतगोक्तास्त्विमे वर्णाः कतदा वनमा रवौ ।। ११०७ ।। उक्तास्त्वन्यैरिमे वर्णाः करगा घटनाः खहौ । विमिका वाद्यशास्त्रेऽस्मिन्कर्पराः परिकीर्तिताः ॥ ११०८ ॥
इति रखालक्षणम्
द्वे कवले यस्यां सा कुडुवा ; हुडुक्कोक्त एव वर्णो यस्यां, मधूच्छिष्टकोणद्वयेन वाद्यते । झेंकारो नास्ति ॥ १०९८-११०१- ॥
इति कुडुवालक्षणम्
(सु०) रुजां लक्षयति-अष्टादशेति । अष्टादशाङ्गुलदीर्घा रुजा, सा समानाकृतिः, तस्या कुण्डलीयुते द्वे वदने एकादशाङ्गुला च चर्मणा नद्धव्ये बन्धयितव्ये । वाममुखस्य आस्यमध्ये कुण्डलीद्वयं कर्तव्यम् । तत्र कुण्डल्योर्मध्ये एका वक्त्रप्रमाणा, अपरा तु चतुरगुलप्रमाणा च, स्नायुनिर्मिता नलिका स्थाप्या। वाममुखमेकच्छिद्रसंयुतं सूत्रतन्तुनाचनवत्या वाद्यं बध्वा, प्रान्ते
Scanned by Gitarth Ganga Research Institute