________________
षष्ठो वाद्याध्यायः हुडुक्कैवार्गला हीना कुडुक्का किंतु वादनम् । अस्याः करेण कोणेन क्षेत्रपालस्तु देवता ॥ १०९७ ॥
इति कुडुक्कालक्षणम् बीजदारुमयी सप्ताङ्गुलगर्भमुखद्वया । एकविंशत्यगुला च यस्या दैर्ये समाकृतिः ॥ १०९८ ॥ संहतानित्रयाकारत्र्यङ्गुलस्थूलतायुते ।। वृत्ते नवागुले गर्भे वलये वल्लिनिर्मिते ॥ १०९९ ॥ सप्तसप्तच्छिद्रयुते यस्याः स्यातां मुखद्वये । कवलाभ्यां पिनह्येते मुखे च वलयान्विते ॥ ११०० ॥ सरन्धे कबले रन्ध्रन्यस्ततन्त्रीसुयन्त्रिते । कुडुवा सा हुडुक्कोक्तवर्णात्कारभूयसी ॥ ११०१ ।। कोणाभ्यां मदनाक्ताभ्यां वायते त्यक्तझेंकृतिः ।
___ इति कुडुवालक्षणम्
(सु०) कुडुक्कां लक्षयति-कुडुक्केति । पूर्वोक्तहुडुक्कैव अर्गला हीना कुडुक्का । किंतु करेण कोणेन वादनमिति विशेषः ॥ १०९७ ॥
इति कुडुक्कालक्षणम् (सु०) कुड्डुवां लक्षयति--बीजेति । बीजकवृक्षकृता लोहादिधातुमयी वा सप्ताङ्गुलो गर्भो मुखद्वयं यस्याः, एकविंशत्यगुलदीर्घा समानाकारा संहतमेवोत्थापितं यदग्नित्रयं तद्वत् त्रिकोण आकारो यस्याः । यस्याश्च मुखद्वये वर्तुले गर्भगर्ते नवागुले वलयीकृते सप्तसप्तरन्ध्रे द्वे वलये स्याताम् । मुखद्वयेति । मुखद्वये कवलाभ्यामिति द्विमुखे कवलाभ्यामपि पिनह्येते आच्छाद्यते । मुखे च वलयान्विते कार्ये, सरन्छे रन्ध्रसहिते, रन्ध्रन्यस्तया तन्या सम्यक् नियन्त्रिते
Scanned by Gitarth Ganga Research Institute