________________
४७२
संगीतरत्नाकरः घनः श्लक्ष्णः सुपकश्च स्तोकवक्त्रो महोदरः ॥ १०८५ ।। पाणिभ्यां वाद्यते तज्ज्ञैश्चर्मनद्धाननो घटः । कथिताः पाटवर्णा ये मर्दले ते घटे मताः ॥ १०८६ ॥
इति घटलक्षणम् प्राय इति प्राचुर्येणेत्यर्थः । सामान्येन तु पटहादिकूटपाटा यथोचितं द्रष्टव्याः ॥ १०७८-१०८४- ॥
___ इति करटालक्षणम् (सु०) करटालक्षणमाह-बीजेति । बीजकोऽसनवृक्षः, तस्मात् जाते पिण्डे अङ्गुलचतुर्थाशेन मिता दीर्घत्वे, एकविंशत्यगुला परिधौ, वर्तुलप्रमाणे चत्वारिंशदगुला, तस्याश्च द्वे मुखे चतुर्दशाङ्गुले कार्ये इति । मण्डल्यौ च लोहमय्यौ सूत्रेण वेष्टिते चर्मणावबद्धे परिधौ द्वाचत्वारिंशदङ्गुले कार्ये । तिस्र इति । मुखयोः चतुर्दशभी रन्धेः युक्तं कवलेन व्याप्तं वलयद्वयं दधाना तिस्रस्तिस्रः तन्त्रीष्वेकान्तरेषु रन्ध्रेषु क्षिपेत् । तावतीविग्निका कर्पराश्च निक्षिपेत् । द्वाभ्यां विग्निकाभ्यां मत्स्याकारं बन्धनं क्रियते यस्यां, तां करटामित्याहुः । प्रान्तप्रदेशयोः प्रान्तया बद्धया स्कन्धप्रदेशे च कच्छया कव्यां वा वादनसमये करटां वहेत् । करटेति त्रयो वर्णाः पाटा:, कुडुपाभ्यां ; कोणद्वयेन वादनं कार्यम् ॥ १०७८-१०८४-॥
इति करटालक्षणम्
(क०) अथ घट-घडस-ढवस-ढक्का-कुडुक्का-कुडवा-रुजा-डमरुकडक्का-मण्डिडक्का-डक्कुली-सेल्लुका-झल्लरी-भाण-त्रिवली-दुन्दुमि-भेरी-निःसाण-तुम्बकीनां लक्षणानि ग्रन्थत एव सुबोधानि ॥ -१०८५-११५६ ॥
इति घटादिलक्षणम् (सु०) घटं लक्षयति-घन इति । घन: अन्तःसारः,लक्ष्णो मसृणः,सुपक्कः सम्यक्पाकवान् , स्तोकवक्त्रः अल्पमुखः, महोदर: स्थूलोदरः, चर्मनद्धाननः
Scanned by Gitarth Ganga Research Institute