SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः हुडुक्कयैव घडसो व्याख्यातः किंतु मण्डली । दक्षिणस्योदलीबद्धा वामा रज्ज्वा नियन्त्रिता ॥ १०८७ ॥ औद- पट्टिकायां च वामोऽत्र न निवेश्यते । गोंकारबहुलं चामुं वादयेदिति तद्विदः ॥ १०८८ ।। अङ्गुष्ठमध्यमामुल्यौ मदनाक्ताग्रभागतः। दक्षिणेन करेणास्ये घर्षणादोंकृतिर्भवेत् ।। १०८९ ।। घातोऽगुलीभिर्वामस्य वामाङ्गुष्ठेन पीडनम् । इति घडसलक्षणम् स्याद्धस्तदैर्घ्यः परिधौ सनवत्रिंशदगुलः ॥ १०९० ॥ द्वादशाङ्गुलके वक्त्रे वल्लीवलयसंयुते । धर्मणा आच्छादितमुखश्च यत्र करद्वयेन वाद्यते स घटः । मर्दले ये कथिताः पाटवर्णाः ते सर्वेऽप्यस्मिन् घटे ज्ञातव्याः ।। -१०७५-१०८६ ।। ___इति घटलक्षणम् (सु०) घडसं लक्षयति- हुडुक्कयैवेति । हुडुक्कालक्षणमेव घडसस्य लक्षणं, तर्हि कथं पृथनिर्देश इत्याह-किंत्विति । अयं विशेष:-दक्षिणस्य स्थिता मण्डली अस्य घडसस्य उद्दल्या बध्यते । वामामण्डली तु तर्जन्या नियम्यते । औदर्यामदरसंबन्धिन्यां पट्टिकायां वामहस्तस्य निवेशो नास्ति । गोंकारस्य प्राचुर्य यस्मिन् ; एवंविधं सममङ्गुल्योः मध्वोच्छिष्टलिप्तेन अग्रभागेन वादयेत् । दक्षिणेन अस्य घर्षणात् मुखघर्षणात् गोंकार उत्पद्यते । एतस्य च वामवादने वामहस्तस्याङ्गुलीभिः घातस्यैवाङ्गुष्टेन पीडनमिति ॥ १०८७-१०८९- ॥ इति घडसलक्षणम् (सु०) ढवसं लक्षयति-स्यादिति । हस्तप्रमाणदैर्घ्यः परिधौ वर्तुल 00 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy