________________
षष्ठो वाद्याध्यायः
बीजवृक्षोद्भवा पिण्डेऽङ्गुलतुर्याशसंमिता । एकविंशत्यङ्गुला स्याद्दैर्ये हस्तमिताथवा ।। १०७८ ।। परिधौ दधते मानं या चत्वारिंशदङ्गुलम् | चतुर्दशाङ्गुले वक्त्रे केषांचिद् द्वादशाङ्गुले ।। १०७९ ॥ मण्डल्यौ लोहजे मूत्रवेष्टिते चर्मबन्धने । परिधौ संमिते ते च द्वाचत्वारिंशताङ्गुलैः || १०८० ॥ तिस्रस्तिस्रस्तथा तन्त्रीर्मुखयोर्वलयद्वयम् ।
४७१
दधते वलव्याप्तं चतुर्दशभिरन्वितम् ।। १०८१ । रन्धैस्तेष्वेकान्तरेषु विनिकास्तावती: क्षिपेत् ।
द्वाभ्यां द्वाभ्यां विनिकाभ्यां वन्धो मत्स्याकृतिर्भवेत् ||१०८२|| यस्यास्तां करटामाहुः प्रान्तयोः प्रान्तवद्धया ।
कच्छया स्कन्धदेशे तां कट्यां वा वादने वहेत् ।। १०८३ ॥ चर्चिका देवता चास्यां पाटास्तु करटेत्यमी । वादनं कुडुपाभ्यां तु शार्ङ्गदेवेन कीर्तितम् || १०८४ ॥ तिरिकितिरिकिरीति प्रायः पाटद्वयं मतम् ।
इति करटालक्षणम्
न्यस्येत् । अङ्गुलचतुर्थांशमितं छिद्रं यस्याः, चतुर्थाशे नादोद्बोधविधायक स्यात् । तस्या वादनप्रकारमाह - तस्या इति । वर्णानाह - कुर्वीतेति । देंकारं विना पटहोक्तान् वर्णान् कुर्यात् । अन्यैः मनीषिभिः मकारझेंकारावधिकावुक्तौ । इयं हुडुक्का लोके आवजं स्कन्धावजमिति च कथ्यते ॥ १०६८-१०७७ ॥ इति हुडुक्कालक्षणम्
(क०) अथ करटां लक्षयति - बीजवृक्षोद्भवेत्यादि । पाटास्तु करटेत्यमी ; करटेति वर्णसमुदाय एकः । तिरिकि तिरिकिरीति द्वितीयः ।
Scanned by Gitarth Ganga Research Institute