SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः बद्ध्वा तत्रोत्कक्षको च विधाय स्कन्धपट्टिकाम् । तयोगुिणतां न्यस्येदगुलार्धार्घसंमितम् ॥ १०७३ ।। छिद्रं यस्याश्चतुर्थीशे नादोद्बोधविधायकम् । हुडुक्का सा बुधैः प्रोक्ता तस्याश्च स्कन्धपट्टिकाम् ॥ १०७४ ॥ न्यस्य स्कन्धे दक्षिणेन पाणिना वादनं भवेत् । उदरे पट्टिका प्रोक्ता तस्यां वामं निवेशयेत् ॥ १०७५ ॥ देवता मातरः सप्त शाङ्गदेवेन कीर्तिताः । कुर्वीत पाटहान्वर्णानिह देकारवर्जितान् ।। १०७६ ॥ अत्रान्यैरधिकावुक्तौ मझेंकारौ मनीषिभिः । लक्ष्यज्ञास्त्वावजं प्राहुरिमां स्कन्धावजं तथा ॥ १०७७ ॥ इति हुडुक्कालक्षणम् पाट हैर्वणैः सह मकारोकारौ प्रयोक्तव्यावित्यर्थः । इमां हुहुक्कां लक्ष्यज्ञा आवजं तथा स्कन्धावजं चैवं संज्ञाद्वयमपरमाहुः ॥ १०६८-१०७७ ।। इति हुडुक्कालक्षणम् (सु०) हुडुक्कां लक्षयति—या हस्तेति । दीर्घत्वे हस्तप्रमाणे, परिधौ वर्तुलप्रमाणे अष्टाविंशत्यगुल:, पिण्डे एकागुल:, तस्याः द्वे मुखे सप्ताङ्गुल:, मुखयोः मण्डल्यौ वल्लीमध्यौ चर्मरचिते एकादशा गुलमिते, सचतुर्थाशागुल: स्थौल्ये, पूर्वोक्तया उद्दल्या बद्धमुखेन सह स्यातां भवेताम् । तयोः मण्डल्यो: बन्धनरज्जुप्रवेशाय षड् रन्ध्राणि कार्याणि । पूर्वभागे च तिस्रोऽर्गला कलशे कलिता आदिरन्तश्च यासां तथाविधा, पश्चाद्भागे तु द्वे अर्गले बन्धे, बन्धसूत्रयोः मध्ये उदर पट्टिका भवेत् । अङ्गुलत्रयविस्तारा श्लक्ष्णा मसृणा हृदयहारिणी द्वात्रिंशत्तन्तुभिः संजातारज्जु:, तया पक्षद्वयं दृढं बध्वा, तत्र प्रोक्तावस्था ऊर्ध्वकक्षा यस्याः, तथाविधां स्कन्धपट्टिकां कृत्वा, तयोः; रन्ध्रयोः, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy