________________
षष्ठो वाद्याध्यायः शुद्धसालगगीतानां वर्णान्कठिनकोमलान् । समांश्च विषमानादं मन्दं मध्यं च तारकम् ।। १०६१ ॥ प्रौढं वा मधुरं सम्यगनुगच्छति वादनात् । पूर्वभागे तथाभोगे जक्कामहरणे क्रमात् ॥ १०६२ ।। कुर्याद्वैकल्पिके यद्वा समयं गीतमाश्रिते । समुत्थिते वानुलोम्याद्वैलोम्याद्वोभयेन वा ॥ १०६३ ।। निःसारौ सालगे गीते यस्तं गीतानुगं विदुः। क्रमात्तकारयोंकारौ स कुर्याद् ग्रहमोक्षयोः ।। १०६४ ।।
इति गीतानुगः (सु०) मुखरीलक्षणमाह-कर्तेति । सुरेख: रक्षकः अन्तर्मुखश्च कर्तव्यः । अर्धाङ्गमिव नृत्ते तदनुसारित्वात् अभिनयकारकः रजसंगतः रङ्गमण्डपं प्राप्तः ॥
इति मुखरी (सु०) प्रतिमुखरीलक्षणमाह-मुखरीप्रोक्तलक्षणैः किंचिद्धीन: प्रतिमुखरी ॥ -१०५८-१०५९- ॥
___ इति प्रतिमुखरी (क०) प्रतिमुखरीगीतानुगयोर्लक्षणं ग्रन्थत एव सुबोधम् । तत्र 'जक्केति यतिरुच्यते । यतिर्जक्केति सा' इत्युक्तत्वात् । ग्रहे तकारः । मोक्षे थोंकार इति क्रमो द्रष्टव्यः ॥ -१०६०-१०६४ ॥
___ इति गीतानुगः
इति चतुर्विधमालिकलक्षणम् (सु०) गीसानुगं लक्षयति-शुद्धेति । यस्तु शुद्धानां सालगानां च गीतानां कठिनादिगुणान् वर्णान् बध्वा, समांश्च विषमान् नादं, मन्द्रमध्यतारेण प्रौढं मधुरं वा वादनात् सम्यगनुगच्छति अनुसरति, यश्च सालगगीते पूर्वभागे
Scanned by Gitarth Ganga Research Institute