SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः शुद्धसालगगीतानां वर्णान्कठिनकोमलान् । समांश्च विषमानादं मन्दं मध्यं च तारकम् ।। १०६१ ॥ प्रौढं वा मधुरं सम्यगनुगच्छति वादनात् । पूर्वभागे तथाभोगे जक्कामहरणे क्रमात् ॥ १०६२ ।। कुर्याद्वैकल्पिके यद्वा समयं गीतमाश्रिते । समुत्थिते वानुलोम्याद्वैलोम्याद्वोभयेन वा ॥ १०६३ ।। निःसारौ सालगे गीते यस्तं गीतानुगं विदुः। क्रमात्तकारयोंकारौ स कुर्याद् ग्रहमोक्षयोः ।। १०६४ ।। इति गीतानुगः (सु०) मुखरीलक्षणमाह-कर्तेति । सुरेख: रक्षकः अन्तर्मुखश्च कर्तव्यः । अर्धाङ्गमिव नृत्ते तदनुसारित्वात् अभिनयकारकः रजसंगतः रङ्गमण्डपं प्राप्तः ॥ इति मुखरी (सु०) प्रतिमुखरीलक्षणमाह-मुखरीप्रोक्तलक्षणैः किंचिद्धीन: प्रतिमुखरी ॥ -१०५८-१०५९- ॥ ___ इति प्रतिमुखरी (क०) प्रतिमुखरीगीतानुगयोर्लक्षणं ग्रन्थत एव सुबोधम् । तत्र 'जक्केति यतिरुच्यते । यतिर्जक्केति सा' इत्युक्तत्वात् । ग्रहे तकारः । मोक्षे थोंकार इति क्रमो द्रष्टव्यः ॥ -१०६०-१०६४ ॥ ___ इति गीतानुगः इति चतुर्विधमालिकलक्षणम् (सु०) गीसानुगं लक्षयति-शुद्धेति । यस्तु शुद्धानां सालगानां च गीतानां कठिनादिगुणान् वर्णान् बध्वा, समांश्च विषमान् नादं, मन्द्रमध्यतारेण प्रौढं मधुरं वा वादनात् सम्यगनुगच्छति अनुसरति, यश्च सालगगीते पूर्वभागे Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy