________________
४६६
संगीतरत्नाकरः कर्ता वाद्यप्रबन्धानां नृतशिक्षाविचक्षणः ॥ १०५८ ॥ गीतवादननिष्णातः सुरेखोऽन्तर्मुखश्च यः । अर्धाङ्गमिव नर्तक्या वादयेद्रङ्गभूमिगः ॥ १०५९ ।। वादकैः प्रेक्षितमुखो वादनार्थ मुखर्यसौ ।
__ इति मुखरी किंचिद्धीनो मुखरिणः प्रोक्तः प्रतिमुखर्यसौ ॥ १०६० ॥
इति प्रतिमुखरी (सु०) तकारेणेति । एतेषां सर्वेषां प्रान्ते तकारः कर्तव्यः । दिगिदिगीत्यादिवर्णान् कुर्यात् । अतिद्रुते माने यः खण्डो गीयते, स ताटवाद इत्युच्यते । अन्येऽपि वाद्यप्रकारा अनेका अमुना अध्वना अनेन मार्गेण ऊहनीयाः । एवमुक्तप्रकारेण, वादप्रकाराणां सम्यक्त्वं समीचीनत्वं यत्र विद्यते, तत्र तस्य मार्दलिकस्य विजयो भवेत् ॥ -१०५५-१०५७ ॥
इति वादक: (क०) अथ मुखरिणं लक्षयति--कर्तेत्यादि । वाद्यप्रबन्धानां यत्यादीनां कर्ता निर्माता । नृत्तशिक्षाविचण इति । पात्राणां प्रथम नटेनोपदिष्टस्य नृत्तस्य तदसंनिधावप्यभ्यासकरणे दक्ष इत्यर्थः । गीतवादननिष्णात इति । मध्ये मध्ये नादानुकरणेन गीतं यथा रज्यते तथा वादने निपुण इत्यर्थः । सुरेख इति । वादसमय दृश्यासंनिवेशवानित्यर्थः । अन्तमुख इति । अवहितमना इत्यर्थः । नर्तक्या अर्धाङ्गमिवेति । करचरणाद्यङ्गं यथा नृत्त उपयुज्यते तथा मुखर्यपि नृत्तानुगुणलयप्रदानानवदुपयुज्यत इत्यर्धाङ्गमिवेत्युक्तम् । वादनार्थ वादकैः प्रेक्षितमुख इति । इतरेषां वादकानां वादनं मुखर्यधीनमित्यर्थः ।।-१०५८-१०५९॥
इति मुखरी
Scanned by Gitarth Ganga Research Institute