SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४६५ षष्ठो वाद्याध्यायः तकारेण च सर्वेषामेतेषां त्याग इष्यते ॥ १०५५ ॥ कुर्यात्ततो दिगिदिगि ताटवादादिकं तथा । वर्णा दिगिदिगीत्येते प्रोक्ता दिगिदिगौ बुधैः ॥ १०५६ ॥ यः खण्डोऽतिद्रुते माने ताटवादः स कथ्यते । अन्येऽपि वादविधयोऽभ्यूह्यन्तामध्वनामुना ॥ १०५७ ।। इति वादप्रकाराणां सम्यक्त्वे विजयो भवेत् । इति वादकः (सु०) तयोर्लक्षणमाह-कृत्वेति । श्रमस्य वहीं कृत्वा अष्टकलाधिके ताले तालकलाविस्तारानुगः एकसरगीतौ वाद्यखण्ड: टाकणीत्युच्यते । सा टाकणी एकद्वित्रिचतुर्वारमावृत्त्या एकसरः । इहेति । श्रमवहन्याः वादनप्रकारः तद्धिथोंदेमित्याद्यैः पाटैः । एकसरं लक्षयति-टाकणीवदिति । टाकणीवत् समस्तखण्डं प्रथमं गीत्वा, ततः परं खण्डं द्विप्रकार वाद्यते चेत् पाट: पाटस्यैकसरत्वात् । जोडात्वं च टाकणीवद् ज्ञातव्यम् । स एवेति ; स एवैकसरः द्विःकृतश्चेत् , जोडेत्युच्यते ॥ -१०५१-१०५४- ॥ इत्येकसरवादः ___ (क०) सर्वानुगतं लक्षणैकदेशमाह-तकारेणेति । ततोऽनन्तरं दिगिदिगि कुर्यात् । तथा दिगिदिगेत्यनन्तरं ताटवादादिकं कुर्यात् । अत्रादिशब्देन ताण्डिकप्रसिद्धो वाद्यविशेषो द्रष्टव्यः । दिगिदिगीति ताटवादयोः क्रमेण स्वरूपं दर्शयति । वर्णा इत्यादि । अन्येऽपीति । पूर्वोक्ता बोलावण्यादयो देशीप्रसिद्धाश्च वाद्यविधयः । अमुना अध्वना वादोक्तमार्गेणाभ्यूह्यन्ताम् । निगमयति-इतीति । सम्यक्त्व उक्तप्रकारेण वादने विजयो भवेदिति फलं दर्शितम् ॥ १०५५-१०५७. ॥ इति वादक: Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy