SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४६४ संगीतरत्नाकरः टाकणीवत्समस्तं प्राक्खण्डं कृत्वा ततः परम् । खण्डं खण्डं द्विविारं वाद्यते वाद्यसंझके ।। १०५४ ।। तत्रैकसरजोडात्वं टाकणीवदुदाहृतम् । यथा-दंदंटिरिटिट्टिकड्द कडदगझेक डदगझे परिक्कपरि टगणगणधरि गणगणधरि दथरिगडदग दथरिगडदग हथरिगडदग दधरिदयरितर्गड्दक्थरिक्कटतत्तक् इति षोडशकले ताले षोडशकलासुषोडशखण्डकं वाद्यं कृत्वा तान् षोडश खण्डान् द्विद्धिः कुर्यात् । इत्येकसरवादः सरटाकणी भवतीत्यर्थः । टाकण्यङ्गत्वेन प्रसक्तायाः श्रमवहन्या लक्षणमाह-एकत्रिीत्यादि । शुद्धाभ्यसनेनि । शुद्धानां तद्वयादिसप्तवर्णानां मध्ये केषांचिदेकद्वित्रिचतुर्वारमावृत्तौ । ताः प्रस्तार्य दर्शयितुमाह-यथेति ॥ -१०५१-१०५३ ॥ (क०) तद्धितोटेमित्यादि यावदष्टकलं श्रमवहन्याः प्रस्तारो द्रष्टव्यः । सैव द्विवारं कृता चेजोडाटाकणी ॥ (क०) अथ वादं लक्षयति-टाकणीवदित्यादि । वादसंज्ञकं प्राक्खण्डं स्वकीयं प्रथम खण्डं टाकणीवट्टाकण्यामिव सकृदेकवारं कृत्वा । ततः परं खण्डं खण्डं द्विर्द्विवारं वाद्यत इति संबन्धः । तत्रैकसरजोडात्वमिति । एकसरत्वं चैकसरजत्वम् । टाकणीवदुदाहृतमिति । उक्तलक्षणस्य वाद्यस्य सकृत्करणेनैकसरवादः । तस्यैव समुदायत्रयस्य द्विःकरणेन जोडावाद इत्यर्थः ॥ १०५४, १०५४- ॥ (क०) दंदं टिरि, इत्यायेकसरवादस्य प्रस्तारः । जोडावादे तमेव द्विः कुर्यात । इत्येकसरवादः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy