________________
षष्ठो वाद्याध्यायः कृत्वा श्रमस्य वही यस्तालेऽष्टकलादिके ॥ १०५१ ।। वाद्यखण्डस्तालकलाप्रस्तारानुगतः कृतः ।। अखण्डितष्टाकणी सैकसरत्वं सकृत्कृतेः ॥ १०५२ ॥ एकद्वित्रिचतुर्वारं शुद्धाभ्यसनतो भवेत् । इह श्रमवहन्याख्यः प्रकारो वादने यथा ॥ १०५३ ॥
तद्धितोटें ततधिधियोंथोंटेंटेंतततधिधिधियोंथोंर्थोटें । तततत विधिधिधियोथोथोथोटेटेटेटे । इति श्रमवहनीं त्वा, एकसरटाकणी यथा-तकधिकट तकधिकट धिकटतक तकधिकट तकतकधिकट धिकटकतधिकट इत्यष्टौ वाद्यखण्डस्य खण्डा अष्टासु कलासु,
सैव द्विवारं जोडा॥ इति । ततोऽनन्तरं मध्यलये तालद्वये वादसंयोगं कुर्यात् । ततो नादं पूर्वस्मात् पूर्वस्मात् उच्चमानम् उत्तरोत्तरं विलम्बितादिलयत्र्यं क्रमात् एकद्वित्रैः थोंकारैः ग्रहे मोक्षे च युक्तं दलत्रयं खण्डत्रयं स्थानत्रयमिति शुद्धं हस्तद्वयेन मधुरं यद्वाद्यते तत् स्थापनमिति । तत इति । तत: अनन्तरं ग्रहमोक्षमध्ये थोमिति शब्देन व्याप्तं चतुरश्रादितालेषु येन केनचित्तालेन रचितं भवेत् । तदा टाकणीवादश्च कर्तव्यः । तयोः टाकणीयोः प्रत्येकमेकसरटाकणी जोडाटाकणी चेति द्वौ भेदौ ॥ -१०३९-१०५०-॥
(क०) तत्र सामान्येन टाकणी लक्षयति-कृत्वेति । श्रमस्य वहनी कृत्वा, अष्टकलाधिके ताले; एककलचच्चत्पुटादावित्यर्थः । आदिशब्देन द्विकलचतुष्कलचञ्चत्पुटादयो गृह्यन्ते । तत्रैकस्मिन् ताले, तालकलापस्तारानुगत इति दक्षिणादिमार्गवशात्तालस्य यावन्मात्रा कला भवति, तस्याः प्रस्तारमनुगतः कृतः । अखण्डितः; सकलो वाद्यखण्डः टाकणीति संबन्धः । सा सकृत्कृतेरेकसरत्वमिति । प्राप्नोती शेषः । अनावृत्त्यैक
Scanned by Gitarth Ganga Research Institute