________________
४६२
संगीतरत्नाकरः चतुरश्रयश्रमिश्रखण्डेष्वेकेन केनचित् । तालेन टाकणीवादौ कर्तव्यौ तदनन्तरम् ॥ १०५० ॥
तयोरेकसरो जोडा चेति भेदद्वयं मतम् । । शुद्धमिति मन्द्रादिष्वपस्वररहितमित्यर्थः । वादकः स्वयं रागालापयुक्त. मुद्धट्टनं कुर्वन् तदुपरञ्जकत्वेन मध्ये मध्ये मर्दलवादनं कुर्यादित्यर्थः । एवं हस्तद्वयन यन्मधुरं वाद्यते तस्थापनमिति तज्ज्ञैः ; वाद्यज्ञैरुदाहृतम् । ततः; स्थापनानन्तरं, थोंकारबहुलग्रहमोक्षः; थोंकारैर्बहुलैग्रहमोक्षौ यस्येति स तथोक्तः । अन्तरः ; अन्तराख्यः खण्डः कर्तव्यो भवति । तदनन्तरम् ; अन्तरानन्तरं चतुरश्रव्यश्रमिश्रखण्डेषु मध्य एकतमेन केनचित्तालेन टाकणीवादौ, टाकणी च वादश्चेति द्वन्द्वः ; तौ कर्तव्यौ भवतः । तयोः ; टाकणीवादयोः, प्रत्येकम् । एकसरो जोडा चेति भेदद्वयं मतमिति । एकसरटाकणी जोडाटाकणीति । एकसरवादो जोडावादश्चेत्यर्थः ॥ -१०३९-१०५०-॥
(सु०) मार्दङ्गिकमैदानाह-चतुर्विध इति । मार्दलिकः; मर्दलवादकः, वादकादिभेदेन चतुर्विधः, वादकः, मुखरी, प्रतिमुखरी, गीतानुग इति । तत्र वादकस्य लक्षणमाह-वादक इति । वादस्य विद्याकलहस्य कर्ता वादकः, पक्षपरिग्रहश्च वाद इत्युच्यते । स्वपक्षसाधनं परपक्षदूषणं विपक्षपरिग्रहः । येऽन्य इति । ये जल्पवितण्डाद्या अन्ये भेदा:, तान् ग्रन्थविस्तरभीत्या नावोचत् । वाद इति | पक्षपरिग्रहरूपे वादे त्राटनासंज्ञिकं वाद्यं प्रथम कर्तव्यम् । त्राटनं लक्षयति-मर्दल इति । बोहणेन विना अताले मर्दले वक्ष्यमाणे देहडडगादिकृतः यो ध्वनिर्जायते तत्र त्राटनं मतमिति । बोडवाडमिति निबिडशब्दं मार्दङ्गिकप्रसिद्ध हस्तविस्तारार्थ कुर्यात् । तत:, अनन्तरं मुक्तशब्दरूपात् देहदडगात् अप्रमुखं कार्यम् । तत: उधारस्थापनं च । तत्स्थापनमप्रमुखमित्युच्यते । मुखयोरिति । मर्दलस्य मुखद्वये बोहणं दत्वा वाम मुखं गड्दग्धोमिति वर्णैर्वादयेत् । दक्षिणं वक्त्रं तु गदग्धामिति वादयेत् । तत
Scanned by Gitarth Ganga Research Institute