________________
४६१
षष्ठो वाद्याध्यायः गड्दग्धोमिति वक्त्रं तु गद्ददग्धामिति दक्षिणम् । ततो मध्यलये ताले द्वितीये मुखयोयोः ॥ १०४६ ।। कुर्याभादसमायोगमयोच्चोचं दलत्रयम् । पृथग्विलम्बिते मध्ये द्रुते चैव लये क्रमात् ॥ १०४७ ॥ तयैकद्वित्रियोंकाररचितं ग्रहमोक्षभाक् ।
आलप्सिवच्च त्रिस्थानशुद्ध हस्तद्वयेन यत् ॥ १०४८ ॥ मधुरं वाद्यते तज्ज्ञैः स्थापनं तदुदाहृतम् ।
ततस्योंकारबहुलग्रहमोक्षोऽन्तरो भवेत् ॥ १०४९ ॥ भवति तथा वादयेत् । दक्षिणं वक्त्रं तु गड्दग्धामित्यनुकरणं यथा भवति तथा वादयेत् । ततः; अनन्तरं, मध्यलये द्वितीयाख्ये ताले द्वयोर्मुखयोमिदक्षिणयो दसमायोगं नादयोरेकाकारयोर्भिन्नाकारत्वे वादिसंवादिरूपयोः समायोगं मेलनं कुर्यात् । अथः; अनन्तरम् । उच्चोचमिति । दीर्घदीर्घ दलत्रयं खण्डत्रयं विलम्बिते मध्ये द्रुते च पृथग्वाद्यत इत्युत्तरेण संबन्धः । पृथगिति । प्रथमखण्डाद्दीर्घ द्वितीयखण्डं, तस्मात् तदपेक्षया दीर्घ द्वितीयं खण्डं, तदपेक्षया दीर्धे तृतीयं खण्डमपि लयत्रये योजयेदिति पृथक्शब्दार्थः । एतल्लयक्रमात्तथैकद्वित्रिोंकाररचितं तत्तदेव खण्डत्रयं ग्रहमोक्षमाग्वाद्यते । अयमर्थः-प्रथमदलं विलम्बितलये ग्रहमोक्षयोरेकैकथोंकाररचितम् , मध्यलये ग्रहमोक्षयोर्द्विद्विथोंकाररचितम् । दुतलये ग्रहणमोक्षयोस्त्रित्रियोंकाररचितं कृत्वा, तथा द्वितीयतृतीयदलयोरपि कुर्यादिति । आलप्तिवच त्रिस्थानशुद्धमिति । आलप्तिर्यथा मन्द्रमध्यताराख्येषु स्थानेषु शुद्धापस्वररहिता कर्तव्या भवति, तथा मर्दलवाद्ये स्थापनमपि त्रिस्थानेषु विलम्बितमध्यद्रुतेषु शुद्धमसंकीर्ण कर्तव्यमित्यभिप्रायः । अथवा आलप्तिवत् , आलापो रागालापः, सोऽस्यास्तीति मत्वर्थे वतिः । अस्मिन्पक्षे त्रिस्थान
Scanned by Gitarth Ganga Research Institute