________________
संगीतरत्वाकरः वादको वादकर्ता स्याद्वादः पक्षपरियहः ॥ १०४० ॥ स्वपक्षसाधनं तद्वत्परपक्षस्य दूषणम् । येऽन्ये जल्पवितण्डाद्या वादभेदाः सलक्षणाः ।। १०४१ ।। न तान्ब्रवीम्यहं ग्रन्थप्रपञ्चभयभगुरः । वादे च वादनं कार्य प्रथमं त्राटनाभिधम् ॥ १०४२ ॥ मर्दले तालरहिते बोहणेन विना ध्वनिः । यो देहडडगित्यादि कृतोऽसौ त्राटनं मतम् ॥ १०४३ ॥ वोडवाडं घनरवं हस्तावत्येर्थमाचरेत् । मुक्तशब्दात्मकं देहदडादप्रमुखं ततः ॥ १०४४ ॥ उधारं स्थापनं पश्चाद्वादयेत्तदयोच्यते ।
मुखयोर्बोहणं दत्वा वादयेद्वाममाननम् ॥ १०४५ ।। तण्डाद्या इति तर्कशास्त्रोक्तलक्षणा वादभेदा द्रष्टव्याः । बाटनाभिधमिति । त्राटनमित्यभिघा यस्य तत्तथोक्तम् । त्राटनस्य स्वरूपमाह-मर्दल इत्यादि। देहडडगित्यादिरीत्याद्यनुकरणे वर्णोच्चारणम् । आदिशब्देनान्येऽप्यनुकरणयोग्या वर्णा ग्राह्याः । एवं कृतोऽसौ देहडडगित्यादि ध्वनिखाटनं मतमिति संबन्धः । वोडवाडमिति । हस्तावर्त्यर्थमिति बोडवाडप्रयोजनकथनेन हस्तजाड्यापनयनाय क्रियमाणां निरन्तराङ्गुष्ठकनिष्ठिकाहतिमद्धस्ताभ्यां वादनं वोडवाडमिति तत्स्वरूपमुन्नेयम् । ततोऽनन्तरं मुक्तशब्दात्मकं सानुरणनध्वनिरूपं देहडडादप्रमुखमुधाराख्यं वाद्यं वादयेत् । पश्चादुधारानन्तरं स्थापनं वादयेत् । तदयोच्यत इति । अथ ; अनन्तरं तत् ; स्थापनमुच्यते, स्वरूपकथनेन प्रकाश्यते । मुखयोर्बोहणं दत्वेति । भूतिमिश्रेण मर्दितेनौदनेन पूरिकाकारां पिण्डिकां कृत्वा वामवक्त्रे निवेश्याल्पेन तेनौदनेन दक्षिणं वक्त्रं लिप्त्वेत्यर्थः । वाममाननं गड्दग्धोमित्यनुकरणं यथा
Scanned by Gitarth Ganga Research Institute