________________
षष्ठो वाद्याध्यायः
४५९ चतुर्विधो मार्दलिको वादको मुखरी तथा ॥ १०३९ ॥
ततः प्रतिमुखर्याख्यस्तुर्यों गीतानुगो मतः । चिपिटरज्जुं निवेश्य दक्षिणकुण्डल्यां निक्षिप्य आकृष्य द्विगुणां कुर्यात् । कथंभूतां कच्छाम् ? अञ्चलद्वयेन युक्तां पट्टसूत्रकृताम् अष्टाङ्गुलामन्यवस्त्रजातां शोभानुगां कटिप्रदेशे न्यस्येत् स्थापयेत् । एवंविधलक्षणयुक्तं मृदङ्गमाहुः । तस्यैव पर्यायौ मर्दलमुरजाविति । प्रोक्तमिति । मुनिना भरतेन पुष्करत्रयमुक्तम् । तदत्यन्तं लोकव्यवहाराभावात् शार्ङ्गदेवो न व्यतिस्तरत् । भूतीति । भूति: काष्ठभस्म, तन्मिश्रितेन ओदनेन चिक्कणेन स्निग्धेन संमर्थ पिण्डिकां गोलकी कृत्वा पूरिका गुडमिश्रः, पूला इति महाराष्ट्र प्रसिद्धः, तदाकारां पिण्डिका मर्दलस्य वामे मुखे निवेशयेत् । भूतिमिश्रस्यौदनस्य बोहणमिति संज्ञा । तेन दक्षिणभुखं स्वल्पमेव लिम्पेत् । एवं बोहणलिप्ते गम्भीरो ध्वनिर्भवति । अत्र देवता च नन्दिकेश्वरः ॥ ____ मतान्तरमाह-खादिरेति । अयं मर्दल: अन्यैराचार्यै रक्तचन्दनकाष्ठेन खदिरकाष्ठेन वा जात: संमतः । त्रिंशदगुलानि दैर्घ्यम् , अगुलप्रमाणः पिण्डः, वाममुखं द्वादशाङ्गुलम् , दक्षिणं साधंकादशाङ्गुलम । पाटानाहपाटा इति । तद्धिथोंटेहेनेदेमित्येते पाटाः । अन्ये तु तटहा दधलाश्चेत्येते पाटा इत्याहुः । पाटप्रोक्ताश्च षोडश कवर्गादय: भझमानपि अत्राधिका: पाटवर्णा इति केचिदाहुः । पाटानां संज्ञाविशेषमाह-तेष्विति । तद्धयादयः सप्त केवला: शुद्धपाटाः, सस्वरैः स्वरयुक्तै', अस्वरैः, स्वरहीनैर्वा समस्तैः व्यस्तैर्वा व्यापकसंज्ञ: कखादिभिः षोडशभिर्वर्णैः मिश्रा: पाटा: कूटसंज्ञका: पाटाः । कूटमिश्राः शुद्धास्तु खण्डपाटा इत्युच्यन्ते । छन्दसेति । रमणीयेन छन्दसा प्रतिभावान् कविः यथा श्रवणयोरुत्सवदायकैः पदैः श्लोकं रचयति, तथा वादकः शुद्धकूटादिवर्णत्रयमनोहरान बन्धान बन्ढे रचयितुमर्हति ॥-१०१९-१०३८-॥
इति मर्दललक्षणम् . (क०) अथ मार्दलिकभेदानाह-चतुर्विध इत्यादि । जल्पवि
Scanned by Gitarth Ganga Research Institute