________________
४५८
संगीतरनाकरः कविः कवयति श्लोकं श्रवणोत्सवदैः पदैः ॥ १०३७ ॥ यथा तथा कचित्तालैर्वर्णत्रयमनोहरान् । विधाय वादको वाद्यप्रबन्धान्बन्झुमर्हति ॥ १०३८ ।। इमं कवितकाराख्यं वादकं ब्रुवते जनाः ।
इति मर्दललक्षणम कवयति तथा तादृशो वादकः । क्वचित्तालैरित्यनेनान्यत्र तालेनापरत्र तालाभ्यां वा निबद्धान् , वर्णत्रयमनोहरान् ; वर्णानां शुद्धानां कूटानां खण्डानां च त्रयं वर्णत्रयम् । यथाशोमं प्रथितैः शुद्धादिमिस्त्रिविधैर्वणः, मनोहरान् विधाय वाद्यप्रबन्धान् बहून् प्रथितुमर्हति योग्यो भवति । जचाः ; भाण्डिकजनाः । इमं प्रबन्धनिबन्धारं वादकं कवितकाराख्यं कवितकार इत्याख्या यस्येति स तथोक्तस्तं बुंवते ॥ -१०१९-१०३८- ॥
इति मर्दलक्षणम् (सु०) अथ मर्दलं लक्षयति-निर्दोष इति । व्रण भेदादिदोषहीनात् बीजकवृक्षात् जात: अर्धाङ्गुलप्रमाणः पिण्ड:, मध्यविवरं विना काष्टप्रमाणमेकविंशत्यगुलं दैर्ध्य, वाममुखं च चतुर्दशाङ्गुलं, दक्षिणे तु त्रयोदश, मध्य:; मध्यप्रदेशः, पृथुः; स्थूल:, मुखाभ्यामेकाङ्गुलेनाधिकः, द्वयोः प्रान्तयोः वृत्ते वर्तुले घने निबिडे द्वे चर्मणी, तयोः चर्मणोः प्रत्येकमगुलान्तराणि चत्वारिंशद्रन्ध्राणि कार्याणि । वध्र इति । सीवनप्रक्रियायुक्ते तयोश्चर्मणोः रन्धेषु विन्यस्ते वध्रे प्रोता ऊर्ध्वमधश्च स्थिता दृष्टमुदरं पृष्ठं च यस्याः, एवंविधा विग्निका यत्र क्रियते, “विग्निका वाद्यशास्त्रेऽस्मिन् कर्परा परिकीर्तिता" इति । सा च विग्निका त्रिभिर्वधैः बद्धे सति, दृढवेष्टिते कार्या इति । तत्र तस्मिन् प्रदेशे द्वाभ्यां बद्धाभ्यां गोमूत्रिका कार्या, गोमूत्रिकाकारेण रचनाविशेषेण वधे च कार्य इत्यर्थः । तथा कार्ये यथा द्वे आच्छादितमुखे चर्मणी दृढे स्याताम् । प्रान्तयोरिति । प्रान्ते वर्तमाने कुण्डलिद्वयमध्ये वामकुण्डल्यां कच्छां
Scanned by Gitarth Ganga Research Institute