________________
षष्ठो वाद्याध्यायः तटहा दधलाश्चेति पाटानन्यत्र मन्वते ॥ १०३३ ।। इह स्युः पटहोक्ताश्च वर्णाः षोडश कादयः ।
अधिकान्भझमान्वर्णान्वर्णयन्त्यपरे त्विह ॥ १०३४ ॥ तेषु तद्धयादयः सप्त केवला: शुद्धसंज्ञकाः । सस्वरैरस्वरैर्युक्तैरयुक्तैर्वा कखादिभिः ॥ १०३५ ॥ व्यापकाख्यैः षोडशभिर्मिश्रास्ते कूटसंज्ञकाः । कूटमिश्रास्तु ते शुद्धा बुधैः खण्डाभिधा मताः ।। १०३६ ॥
छन्दसा भूरिहयेन स्फूर्तिमूर्तिरुदारधीः । तटमा दधलाश्चेति पाटानन्यत्र मन्वत इति । अन्यत्र मर्दलस्य वामवक्त्रे तटहा दधलाश्चेति षड्वर्णान् पाटान् मन्वतं । इह स्युरिति । इह मर्दले पटहोक्ताः षोडश कादयो वर्णाश्च स्युः । अपरे ; आचार्यास्त्विह मर्दले भझमान् वर्णानधिकान् वर्णयन्तीत्येवं मिलित्वा मर्दले द्वात्रिंशत्पाटा भवन्ति । अत्र केषांचिदेकरूपत्वेऽपि पृथक्प्रयत्नसाध्यत्वात्पृथग्वर्णत्वमवगन्तव्यम् । तेष्वित्यादि । तेषु द्वात्रिंशद्वर्णेषु तद्धयादयः सप्त तद्धिोटेहेनदेमित्येते वर्णाः केवला वर्णान्तरैरमिश्राश्चेच्छुद्धसंज्ञका भवन्ति । कूटानां वर्णानां स्वरूपं दर्शयति-सस्वरित्यादि । तैः शुद्धा एव सस्वरादयः शब्दाः पूर्वमेव व्याख्याताः । तादृग्भूतैः व्यापकाख्यैः सकलवाद्यसाधारण्येन व्यापकसंज्ञैः कखादिभिः षोडशभिः वर्णैमिश्रिताश्चेत्तदा कूटसंज्ञका भवन्ति । खण्डानां स्वरूपं दर्शयति-कूटमिश्रास्त्विति ते शुद्धाः तयादयः सप्त वर्णाः । अत्र तुशब्दश्चेदर्थे । कूटमिश्राश्चेदित्यर्थः । तदा खण्डाभिधा मताः । अथ श्लोकदृष्टान्तपूर्वकं वाद्यप्रबन्धनिर्माणप्रकारमाहछन्दसेत्यादि । स्फूर्तिमूर्तिरिति । स्फूर्तिः प्रतिभा, सैव मूर्तिर्यस्येति स तथोक्तः । उदारधीः; अविकलबुद्धिः कविर्यथा श्रवणोत्सवदैः पदैः लोकं
:6
Scanned by Gitarth Ganga Research Institute