SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः क्रियते वेष्टयते मध्ये त्रिभिर्वन्धैर्हदें तथा ॥ १०२३ ॥ कार्यों गोमूत्रिकाबन्धस्तत्र वध्रद्वयेन च । तथा यथा पिनद्धास्ये भवेतां चर्मणी दृढे ॥ १०२४ ।। कुण्डल्योः प्रान्तयोर्वामकुण्डल्यां संनिवेश्य च । कच्छां क्षिप्त्वा दक्षिणस्यां कृष्वा द्विगुणतां नयेत् ॥ १०२५ ॥ साञ्चलद्वितयां पट्टमयीमष्टामुलायताम् । यद्वान्यवस्वजां शोभानुगां न्यस्येत्कटीतटे ॥ १०२६ ॥ निगदन्ति मृदङ्गं तं मर्दलं मुरजं तथा । प्रोक्तं मृदङ्गशब्देन मुनिना पुष्करत्रयम् ॥ १०२७ ॥ अत्यन्ताव्यवहार्यत्वानिःशको न तनोति तत् । भूतिमिश्रेण भक्तेन चिक्कणेनातिमर्दनात् ।। १०२८ ॥ पिण्डिकां पूरिकाकारां वामवक्त्रे निवेशयेत् । बोहणाख्येन तेनास्यं लिम्पेदल्पेन दक्षिणम् ॥ १०२९ ॥ एवं जलधरवानगम्भीरो भवति ध्वनिः । निःशङ्केनात्र च प्रोक्तो देवता नन्दिकेश्वरः ॥ १०३० ॥ रक्तचन्दनजो यद्वा खादिरोऽन्यैरयं मतः । त्रिंशदगुलदैर्घ्यश्च पिण्डे त्वगुलसंमितः ॥ १०३१ ॥ एतस्य वामं बदनं द्वादशाङ्गुलसंमितम् ।। दक्षिणं तु मितं साधैरेकादशभिरगुलैः ॥ १०३२ ॥ पाटाश्च तद्धिथोटेंहें देमित्यत्र कीर्तिताः । पाटाश्च तद्रियों देमित्यत्र कीनिता इति । अत्र मर्दलस्य दक्षिणवक्त्रे तद्धिोंटेंहेंनंदेमिति सप्त वर्णाश्च पाटाः कीर्तिताः । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy