________________
४५६
षष्ठो वाद्याध्यायः अन्यानपि पथानेन विदांकुर्वन्तु तद्विदः । पाटभेदाश्च वाघानि प्रबन्धा वाघसंश्रयाः ॥ १०१८ ।। यथायोगं मर्दलादिसर्ववाद्येष्विमे मताः ।
इति वाद्यप्रबन्धलक्षणम् निर्दोषवीजवृक्षोत्यः पिण्डेऽर्धागुलसंमितः ॥ १०१९ ॥ एकविंशत्यङ्गुलः स्यादैर्ये वामे मुखे पुनः । चतुर्दशाङ्गुलानि स्युर्दक्षिणे तु त्रयोदश ।। १०२० ।। मानं यस्य मनाङ्मध्यः पृथुरेकामुलाधिके । वक्त्राभ्यां चर्मणी वृत्ते घने ये प्रान्तयोस्तयोः ॥ १०२१ ॥ चत्वारिंशत्पृथग्रन्ध्राण्यगुलान्तरवन्ति च । वधे तद्रन्ध्रविन्यस्ते सीवनप्रक्रियावति ।। १०२२ ।।
पोतो/धःस्थिता दृष्टोदरपृष्ठा च विग्निका । शति-पाटभेदाश्चेत्यादि । पाटभेदा नागबन्धादयोऽष्टाशीतिहस्तपाटाः । वाद्यानि बोलावणीप्रभृतीनि पञ्चविंशतिः । वाद्यसंश्रयाः प्रबन्धा यत्यादयस्त्रिचत्वारिंशत् ।। -१०१७-१०१८- ॥
इति वाद्यप्रबन्धलक्षणम् (सु०) एवमुक्तप्रकारेणान्यानपि प्रबन्धान अनेनैव दिशोहनीया इत्याहप्रदर्शनार्थमिति | अतिदेशमाह-पाटभेदाश्चेति । नागबन्धादयः पाटभेदा अष्टाशीतिः, बोल्लावणीप्रभृतीनि वाद्यानि पञ्चविंशतिः, यत्यादयो वाद्यसंश्रयाः प्रबन्धास्त्रिचत्वारिंशत् ॥ -१०१७-१०१८-॥
इति वाद्यप्रबन्धलक्षणम (क०) अथ मर्दलं लक्षयति-निर्दोषेत्यादि । स्पष्टोऽर्थः ।
Scanned by Gitarth Ganga Research Institute