________________
संगीतरत्नाकरः वर्णव्यक्तिः सुरेखत्वमनुयायप्रवीणता । मधुरोद्धतवाद्येषु विज्ञता हस्तलाघवम् ॥ १०६४ ॥ अवधानं श्रमजयो मुखवायेषु पाटवम् । रक्तिराविद्धकस्यानुत्तिर्बहुलता तथा ॥ १०६५ ॥ यतिताललयज्ञत्वं गीतानुगमनं तथा । गुणा मार्दलिकस्यैते दोषः स्यात्तद्विपर्ययः ।। १०६६ ॥
इति मार्दलिकगुणदोषाः
उद्ग्राहे आभोगे च निःसारुताले आनुलोम्येन प्रातिलोम्येन उभयेन वा जक्का प्रहारेण कुर्यात् । तं गीतानुगं विदुरिति संबन्धः । स गीतानुगो वादकः ग्रहे मोक्षे च तकारयोंकारौ कुर्यात् ॥ -१०५९-१०६२- ॥
इति गीतानुगः इति चतुर्विधमार्दलिकलक्षणम्
(क०) अथ मार्दलिकगुणदोषानाह-वर्णव्यक्तिरित्यादि । अनुयायप्रवीणता ; अनुयायो नामानुवृत्तिर्वाद्यानुकरणमित्यर्थः । तत्र प्रवीणता । तदोषानाह-तद्विपर्यय इति । तेषां गुणानां विपर्ययो वैपरीत्यं दोषः ॥ १०६४-१०६६ ॥
इति मार्दलिकगुणदोषा: (सु०) मार्दलिकगुणदोषानाह-वर्णव्यक्तिरिति । सुरेखत्वं रञ्जकत्वं, गीतच्छायानुसरणमनुयायत्वं, तत्र प्रवीणता । आविद्धको हुडुक्कावादकः, तस्य अनुवृत्तिरनुसरणम् ॥ १०६४-१०६६ ॥
इति मार्दलिकगुणदोषाः
Scanned by Gitarth Ganga Research Institute