________________
षष्ठो वाद्याध्यायः
वितालस्त्वादिमध्यान्त विकृतस्ताल इष्यते || १०१० ॥ इति विताल:
हस्तेन वितताङ्गुष्ठविरलाङ्गुलिना क्रमात् । पताकेन हतैर्जातैः पाटैः स्यात्खलकाभिधः ।। १०११ ॥ इति खलक:
समुदायो निजैः पाटैः समस्तातोद्यवादनात् । इति समुदाय:
पाटानां पृथगुक्तानां मिश्रणाज्जोडणी मता ।। १०१२ ॥ इति जोडणी
उडवः सलयात्तालाद् द्वितालाच्च लयोज्झितात् ।
इत्युडव:
तलपाटस्तु मलपोन्मिश्रपाटपबन्धः ॥ १०१३ ॥ इति तलपाट: निजैर्या तद्धियोंदेभिर्व्यापकैरक्षरैस्तथा ।
४५३
विकारं प्राप्तः ताल एव विताल इत्युच्यते इति विताल: (१६) ; हस्तेनेति । विततोऽङ्गुष्ठः, विरलाश्चाङ्गुलयो यस्मिन् एवंविधेन वक्ष्यमाणपताकाख्यहस्तेन कृताघातैर्जातैः पाटैस्तु खलक:, इति खलक : ( १७ ) ; समुदायेति । निजै: सहजैः पाटैः समस्तवाद्यवादनात् समुदाय:, इति समुदाय: (१८) ; पृथगुक्तानां पाटानां मिश्रीकरणे जोडणी, इति जोडणी (१९); पूर्वोक्ततालसहितात् लयप्रबन्धात् वितालप्रबन्धाच्च लयहीनात् कृताद्धेतोः उडव:, इत्युडव: (२०); पूर्वोक्ततलप्रबन्ध मिश्रितपाटप्रबन्धादुत्पन्नस्तलपाट:, इति तलपाट: (२१) ;
Scanned by Gitarth Ganga Research Institute