________________
४५२
संगीतरत्नाकरः गीतनृत्तसमो माने प्रबन्धः पोच्यते समः ।
इति समः निष्पन्नः केवलैः पाटैः पाट इत्यभिधीयते ॥ १००७ ॥
इति पाट: ध्रुवको भूरिवायेषु स्यादाश्त्तोऽन्तरेऽन्तरे ।
इति ध्रुवकः अङ्गमङ्गीकृतं सान्दैरपाटैापकाक्षरैः ॥ १००८ ॥
इत्यङ्गम्
द्विरुग्राहो ध्रुवाभोगं धुवाख्यः क्रमशस्ततः । यत्राङ्गरूपकं माह तत्तेजोन्वयदीपकम् ॥ १००९ ॥
इत्यङ्गरूपकम् तालश्चतुःपष्टिकलो युग्मे मार्गे च दक्षिणे ।
इति ताल:
यत्या वादने क्रियमाणे ग्वण्डहुल्लः, इति खण्डहुल्लः (९); गीतेति । माने प्रमाणे गीते नृत्ते च समौ सम इत्युच्यते, इति समः (१०); निष्पन्न इति । केवलैः पाटै: गीतवाद्यसंधिगतो निष्पन्न: पाट इत्युच्यते, इति पाटः (११); ध्रुवक इति । अनेकवाद्येषु मध्ये मध्ये आवृत्तो ध्रुवकः, इति ध्रुवकः (१२); पाटहीनैः व्यापकाक्षरैः अङ्गसहितैरुपनिबद्धमङ्गं भवति, इत्यङ्गम् (१३); द्विरिति । उद्ग्राहो द्विर्गेयः, ततोऽनन्तरं ध्रुवाभोगं ध्रुवाक्रमेण बद्धं सकृद्रीयते तदनरूपकमिति, इत्यङ्गरूपकम (१४); युग्मे चच्चत्पुटे दक्षिणमार्गे चतु:षष्टिकलाभियों गीयते स ताल:, इति ताल: (१५); आदिमध्यावसानेषु
Scanned by Gitarth Ganga Research Institute