________________
४५१
षष्ठो वाद्याध्यायः
४५१ कृत्वा खण्डं पाटबद्धं यतिवद्वादनं भवेत् ॥ १००२ ॥ एवमात्तिकरणादाहुः खण्डयति बुधाः ।
. इति खण्डयतिः खण्डच्छेदसमायोगात्खण्डच्छेदपबन्धयोः ॥ १००३ ।। छेदैर्व्यक्तैः समायुक्तं खण्डच्छेदं परे जगुः ।
इति खण्डच्छेदः यस्यां विरतिरन्ते च तालस्य व्यापकाक्षरैः ।। १००४ ॥ सपार्बद्धखण्डा या साख्यातावयतिर्बुधैः ।
इत्यवयतिः पाटस्य खण्डनाद्वाये खण्डपाटोऽभिधीयते ॥ १००५ ॥
इति खण्डपाट: खण्डः स्यात्खण्डमध्येऽपि खण्डशो वादने सति ।
इति खण्डकः स्रोतोगताख्यया यत्या खण्डहुल्लोऽभिधीयते ॥ १००६ ।।
इति खण्डहुल्लः कृत्वेति । पाटनिबद्धं खण्डं कृत्वा पूर्वोक्तयतिवद् वादनं यत्र भवति । एतदावृत्तौ खण्डयतिः, इति खण्डयतिः (५); खण्डच्छेदयोः संयोगात् खण्डच्छेदः । अन्ये तु च्छेदैरवयवपाटै: व्यक्तैश्च युक्तममुं विदुः, इति खण्डच्छेदः (६) यस्यामिति । अन्ते तालस्य विरतिः, सपाटैः पाटसहितैः व्यापकाक्षरैः उपनिबद्धा च सा अवयतिः, इत्यवयति: (७); वाद्ये पाटस्य खण्डनात् खण्डपाटः, इति खण्डपाट: (८); खण्डमध्ये खण्डश: अवयवशः वादने क्रियमाणे खण्डकः, इति खण्डकः (९); तस्मिन्नेव खण्डके स्रोतोगताख्यया
Scanned by Gitarth Ganga Research Institute