________________
४४८
संगीतरत्नाकरः सोदाहरणलक्ष्माणि बालबोधार्यमभ्यधाम् ।। ९९५ ।। लक्ष्ममात्रमथो वक्ष्ये विस्तरवस्तमानसः । मलपाङ्गं तु मलपेनाङ्गेन मलपेन च ।। ९९६ ॥
___ इति मलपाङ्गम् व्यापकाक्षराणि कादीनि षोडश, तैर्मिश्राणि कूटाक्षराणि तद्धिथों में दें, इत्यक्षराणि मर्दलप्रतिनियतत्वेन शुद्धानि, तैर्बद्धम् । निरन्तरयतिम विलम्बितविच्छेदं मलपं तं परे प्राहुः । अस्मिन् पक्षे द्विधातुकोऽयम् ॥९९२-९९४-॥
(क०) गड्दम् तद्धिों, इत्यादि प्रस्तारः । अस्मिन्पक्षेऽयमेकधातुकः ॥
इति मलपः (१४) (सु०) मलपं लक्षयति-योति । शुद्धपाटादिभिर्वर्णसरेण वा निबद्धः, वितालः, तालशून्यः, द्रुतलय: प्रान्ते विलम्बितलयान्वितः दीप्तादिवर्णयुक्तः खण्डो यत्र स मलप: । मतान्तरेणान्यथा लक्षयति-योति । उद्ग्राहः सकृद् द्विर्वा गेयः । ध्रुवः सकृत् वक्ष्यमाणब्यापकाक्षरमिश्रः तद्धियोटेदेमित्येतैरक्षरैः निबद्धं निरन्तरयतियुक्तं मलपं परे प्राहुः ॥ ९९२-९९४- ॥
इति मलप: (१४)
(क०) अथ मलपाङ्गादीनां संक्षेपेण लक्षणमात्रमेव वक्तुमाहसोदाहरणेति । तत्र मलपाझं लक्षयति--मलपाङ्गं विति । अङ्गेन मलपेन । पुनरपि मलपेन चेत्यनेनाङ्गिना मलपेन चेति गम्यते । मलप एवाङ्गत्वेनाङ्गित्वेन च प्रयुज्यते चेन्मलपानं नाम प्रबन्धो भवतीत्यर्थः । ।। -९९५, ९९६ ॥
इति मलपाङ्गम् (१५)
Scanned by Gitarth Ganga Research Institute