________________
षष्ठो वाद्याध्यायः
यत्र शुद्धादिभिर्बद्धः खण्डो वर्णसरेण वा ।
वितालः स्याद् द्रुतलयः पर्यन्ते तु विलम्बितः ।। ९९२ ।। कचित्कापि कोमलैश्चारुगुम्फितः ।
यत्रासौ मलपः प्रोक्तः प्रायिको दीप्तनर्तने ।। ९९३ ॥ यत्रोद्ग्राहः सकृद् द्विर्या ध्रुवकोऽथ सकृद्भवेत् । व्यापकाक्षरमित्रैस्तद्धियों टेंर्देभिरक्षरैः ॥ ९९४ ॥ बद्धं निरन्तरयति प्राहुतं मलपं परे ।
४४७
यथा - गड्दक् तद्धित्थों हथहरे घंटें गगनगतक धिक्क थौं हटें हैं थोदक् । तक्क तहधिक थोकथोहक थो३ हट्टै ि खिखरखिखिखेरथहैं हैं थोहगक् । दिहं कटदहं कटगड्द गथरिकटं२ रिकटतक३ तक विधिक थोऽथद । इदमुदाहरणं मुद्रित - मण्ठताले ||
इति मलप:
(सु० ) तुडुकां लक्षयति - शुद्धेति । शुद्धपाटकूटादिभिः वर्णसरेण वा निबद्ध: खण्ड: अभ्यस्त: तुडुकेत्युच्यते । उद्माहेति । केचिदेतस्यामुप्राहादिषु अन्यतमं खण्डं वादनीयमित्याहु: । अन्ये तु उद्ग्राहादीनां चतुर्णां क्रमेण वादनात् तुडुकेत्याहुः ॥ ९८९-९९१ ॥
इति तुडुका (१३)
(क० ) अथ मलपं लक्षयति-यत्र शुद्धादिभिरित्यादि । यत्र मलपे शुद्धादिभिर्वर्णसरेण वा बद्धः खण्डः । द्रुतलय: सन्विशाल: स्यादिति । खण्ड आदित आरभ्य भागत्रये द्रुतलयः प्रयोक्तव्य इत्यर्थः । पर्यन्ते तु विलम्बित इति । चतुर्थभागे विलम्बितलयः प्रयोक्तव्य इत्यर्थः । मतान्तरेण लक्षणान्तरमाह - यत्रोद्ग्राह इत्यादि । व्यापकाक्षरमित्रैरिति ।
Scanned by Gitarth Ganga Research Institute