________________
४४६
संगीतरत्नाकर:
शुद्धकुटादिभिर्बद्धः खण्डो वर्णसरेण वा ।
अभ्यस्तः स्यादद्रुते माने तुडुका दीप्तनतेने ।। ९८९ ॥ द्रुताद् द्रुततरं मानमत्र लक्ष्येषु दृश्यते । उद्ग्राहध्रुवकाभोगे यत्रान्यतमखण्डकम् ।। ९९० ।। वादनीयं परे प्राहुरन्ये तु तुडुकां जगुः । उद्मावकाभोगोमाहाणां वादनं क्रमात् ॥ ९९९ ॥
यथा - टें देदगि तथोंगटेधिकतः रघटे हे कथीः टेगेधिक तटथोंगः गण नगिः थोंगतक विकथोंगटे, एकताल्यामिदमुदाहरणम् ॥ इति तुडुका
(सु०) छण्डणं लक्षयति - कूटादीति । कूटपाटादिनिबद्धः खण्डः छण्डणः ॥ - ९८८ ॥
इति च्छण्डण: (१२)
(क०) अथ तुडुकां लक्षयति — शुद्धकूटादिभिरित्यादि । द्रुते माने दीप्तनर्तनेऽभ्यस्तखण्डस्तुङका स्यात् । अत्र तुडुकायां -- लक्ष्येषु द्रुताद्भुततरं मानं दृश्यत इति । देशीत्वेनानियमादिति भावः । अस्या एव मतान्तरेण लक्षणान्तरमाह - उद्याहेत्यादि । परे; आचार्याः, अत्र तुडुकायामुद्माहवकाभोगेष्वन्यतमं खण्डकं वादनीयं प्राहुः । तदेयं द्विधातुका | पुनरपि मतान्तरेण लक्षणान्तरमाह - अन्ये विति । अन्ये ; आचार्यास्तु उद्ग्राहध्रुवकाभोगे उद्ग्राहाणां क्रमाद्वादनं तुडुकां जगुः । तदानीमियं त्रिधातुका भवति ॥ ९८९-९९१ ॥
1
(क० ) टेंददंगितेत्यादिः प्रस्तारः । अस्मिन्पक्ष इयमेकधातुका ॥ इति तुडुका (१३)
Scanned by Gitarth Ganga Research Institute