________________
षष्ठो वाद्याध्यायः
पाटैर्मलपपादः स्याद्विषमैर्मलपोपमः । ! इति मलपपाट:
द्रुतैः करतलाघातैर्विकृतैर्यत्र वाद्यते ॥ ९९७ ॥
वाद्यं विच्छिद्य विच्छिद्य च्छेदमिच्छन्ति तं बुधाः । इति च्छेदः
४४९
( सु० ) एवं मुग्धपरिज्ञानार्थं सदृष्टान्तान् भेदानुक्त्वा दृष्टान्तादीनवशिष्टभेदान् लक्षयति- मलपाङ्गमिति । अङ्गभूतेन मलपेन मुख्येन च मलपेन युक्तं मलपाङ्गम् ॥ ९९५, ९९६ ॥
इति मलपाङ्ग (१५)
(०) विषमैः पाटैः कृतो मलपोपमः मलपसदृशो मलपपाटः स्यात ॥ ९९६ ॥
इति मलपपाट: (१६)
(सु० ) पाटैरिति । विषमैः पाटैः मलपवदुपनिबद्धयमानो मलपपाट: ॥ ९९६- ॥
इति मलपपाट: (१६)
(क० ) अथ च्छेदः - बिकृतैरिति । द्रुतस्यात्र प्रकृतत्वान्मध्यविलम्बिता विकृता उच्यन्ते ॥ - ९९७, ९९७-॥
इति च्छेदः (१७)
(सु०) द्रुतैरिति । करतलस्य आघातैः, द्रुतैः विकृतैश्च यत्र वाद्यं वाद्य स च्छेदः ॥ - ९९७, ९९७ ॥
इति च्छेद: (१७)
57
Scanned by Gitarth Ganga Research Institute