________________
४४३
षष्ठो वाद्याध्यायः उद्धतं ध्वनितं कूटबद्धं खण्डं मुहुर्मुहुः ।। ९८४ ।। प्रयुक्तं स्यात्पहरणं ध्रुवाद्याभागगाचरे । नृत्ते पायः प्रयोक्तव्यमन्यत्रापीच्छया भवेत् ॥ ९८५ ॥
यथा-कथोंगक्क थोंगत्योंगटयोंगक योग थोगयोक् कथोगक् योंकट योगक्थोकटं योगक् । गड्दक्काधिक थोंगक् । टगे दयोंह। दिनिकुकुचित्यो हधिकं घिटं इति पुनः पुनः प्रयोज्यम् । एकताल्यामिदमुदाहरणम् ॥
इति प्रहरणम् वृत्तिः ; द्विवारमावृत्तिः । अनावृत्तिः, सकृत्प्रयोगः । बहुधावृत्तौ प्रबन्धतैवेत्यर्थः ॥ ९८२-९८३- ॥
(क०) तेर्टेतहेमिति प्रस्तारः । प्राक्प्रयोगस्वरुपबन्धयोस्तुल्य इति । उग्राहस्यान्याङ्गत्वे पृथक्प्रवन्धत्वे च प्राक्प्रयोगः समान एव । आवृत्तय एव भेदिका इत्यर्थः । अयमप्येकधातुः ॥
इत्युग्राहः (९) (सु०) उग्राहं लक्षयति-आदाविति । शुद्धकूटपाटादिभिनिर्मितः खण्ड: वाद्यप्रबन्धानामादौ यो वाद्यते स उग्राहः । उदग्राहेति । उग्राहोपशमादीनां यद्यप्यन्याङ्गत्वमुक्तं, तथापि प्रबन्धपूरणपर्यन्तमावृत्तौ कृतायां स्वतन्त्रप्रबन्धत्वं भवति । अङ्गत्वेन प्राधान्येन स्थितौ सत्यां द्विरावृत्तिः । अनावृत्तिर्वा; सकृत्प्रयोगः । बहुधावृत्तौ प्रबन्धतैवेत्यर्थः ॥ ९८२-९८३- ॥
इत्युद्ग्राह: (९) (क०) अथ प्रहरणं लक्षयति-उद्धतमित्यादि । ध्वनितं; घोषयुक्तम् । कूटबद्धं ; कूटैरेव बद्धम् । मुहुर्मुहुः प्रयुक्तं खण्डं प्रहरणं स्यात् ।
Scanned by Gitarth Ganga Research Institute