________________
४४२
संगीतरत्नाकरः आदौ वाद्यपबन्धानां शुद्धकूटादिनिर्मितः । यः खण्डो वाद्यते प्राहुरुग्राहं तं महत्तमाः ।। ९८२ ।। उदाहोपशमादीनां यद्यप्यन्यानतोदिता । यावत्पूरणमावृत्तेस्तथापि स्यात्मबन्धता ॥ ९८३ ॥ द्विरावृत्तिरनात्तिर्वा स्यादङ्गतया स्थितौ !
यथा-तें टें है तट्टे तक्रतटे, इति यावत्प्रबन्धपूरणमभ्यासादुद्दाहः प्रबन्धः । अङ्गत्वं तु द्विः सकृद्वा । प्राक्प्रयोगस्त्वङ्गप्रबन्धयोस्तुल्यः ॥
इत्युग्राहः
(क०) अथोद्ग्राहं लक्षयति-- आदावित्यादि । शुद्धकूटादिनिर्मित इत्यादिशब्देन खण्डा गृह्यन्ते । महत्तमाः; अतिशयेन महान्त आचार्या इत्यर्थः । ननूग्राहादीनां प्रबन्धावयवत्वेनोक्तानां कथं पृथक्प्रबन्धतेत्यत आह-उद्याहोपशमादीनामित्यादि । अत्रादिशब्देन मेलापकच्छण्डणादयो गृह्यन्ते । अन्याङ्गता प्रबन्धान्तराङ्गभावो यद्यप्युदिता । तथापि यावत्पूरणमिति । यावतीभिरावृत्तिभिः प्रबन्धाकाङ्क्षाबुद्धिः पूर्यते तावदावृत्तहेतोः प्रबन्धता स्यात् । अयमर्थः-- उग्राहद्यवयवेषु यत्रैक एव प्रबन्धत्वेनोच्यते तत्रेतरावयवस्थाने तमेव प्रयुज्य, अवयवित्वेन प्रबन्धः पूरणीय इति । अत एवोद्ग्राहोपशमादीनां प्रबन्धानामेकधातुकत्वदोषोऽपि निवर्तनीयः । एकधातुकत्वे ह्यप्रबन्धत्वदोषः प्रसज्यते । प्रबन्धानामनेकावयवत्वनियमात् । एकधातुकस्य तु तदभावात् । तत्रावृत्तिकृतानेकत्वाङ्गीकारे तु न स दोष इति सर्व समञ्जसम् । यद्येवं प्रबन्धत्वस्यान्याङ्गत्वस्य च को भेदः ? इत्यत आह-द्विरात्तिरित्यादि । अझतया स्थितौ, द्विरा
Scanned by Gitarth Ganga Research Institute