________________
षष्ठो वाद्याध्यायः खण्डं शुद्धादिभिः पाटबद्धं वर्णसरेण वा ॥ ९८० ॥ अल्पं कोमलनादं च सुकुमाराक्षरान्वितम् । अभ्यस्तं कोमले नृत्ते भवेदुपशमाभिधम् ।। ९८१ ॥ यथा-टेथोंगे पोटेटे थाहटगे थायें घोटे ॥
इत्युपशम: (क०) थोंगटें गड्दद्ममित्यादिः प्रस्तारः । अयं केवलं मेलापकखण्डात्मकत्वादेकधातुकोऽवगन्तव्यः ॥
इति मेलापक: (७) (सु०) मेलापकं लक्षयति–एकताल्यामिति । एकतालीसंज्ञके द्रुतलये ताले, नर्तनारम्भगोचरे ; नृत्तारम्भविषये सति, कम्टादिवादने च युगपत विद्यमाने अल्पकूटपाटेन एकेन निर्मित: अभ्यस्तश्चेत , तीमिति वर्णोऽन्ते यस्य, एवंविध: छण्डणश्चान्ते वाद्यते यस्य, स मेलापकः । वादकप्रसिध्या मेलापनीमिति। टिरिकि टिरिकीति वर्णानामावृत्तिवशात् टीपिरित्युच्यते॥-९७७-९७९-॥
___ इति मेलापक: (७) (क०) अथोपशमं लक्षयति-खण्डं शुद्धादिभिरिति । आदिशब्देन कूटा गृह्यन्ते । स्पष्टमन्यत् ॥ -९८०, ९८१ ॥ (क०) टेंथोंकट इत्यादिः प्रस्तारः । अयमप्येकधातुकः ।
इत्युपशम: (८) (सु.) उपशमं लक्षयति-खण्ड मिति । खण्डे सति शुद्धादिभि: पाटे: वर्णसरेण वा उपनिबद्धं, सुकुमाराक्षगन्वितं कोमलनादं च यत्र कोमले नृत्ते अभ्यस्तं तदुपशम: ॥ -९८०, ९८१ ॥
इत्युपशमः (८)
Scanned by Gitarth Ganga Research Institute