SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४३८ संगीतरत्नाकरः यद्वा वर्णसरेणाथ तादृक्खण्डं सकृद्भवेत् । इत्युग्राहध्रुवौ कृत्वा स्वोद्ग्राहान्त्यदलेऽथवा ॥ ९७२ ।। स्वोद्ग्राहे यत्र मुक्तिस्तत्कवितं कवयो विदुः । अस्य नामान्तरं प्राहुरन्येऽवच्छेद इत्यपि ।। ९७३ ॥ भवेदिह द्रुतं मानं वर्णाः प्रायः स्युरुद्धताः ।। बाहुल्यानर्तनं दीप्तं निःशङ्केनेति कीर्तितम् ॥ ९७४ ॥ यथा-गड्दक्दगिनदंदं गिनथोंग धिक्कट नकाधितक देंहकदर गडदरिक्थ रिक्थ रिदरगड थरिक थों गंडके । धिक्थों टें२, इत्युद्गाहो द्विः। झेंकक नखखिन२ तहें हके नखखिनथों, इति ध्रुवाख्यं खण्डम् । ततो देंहकडरगडेत्यादिनोद्गाहान्त्यखण्डेनोद्गाहेण वा सकलेन गड्दगित्यादिना त्यागः । निःसारुताले चेदमुदाहरणम् ॥ इति कवितम् शुद्धादिनिर्मितम् । आदिशब्देन कूटाः खण्डाश्च गृह्यन्ते । यद्वा वर्णसरेण निर्मितं नातिदीर्घमाद्यं खण्डं द्विः प्रयोज्यं स्यात् । अथ ; अनन्तरं तागाद्यखण्डसदृशं द्वितीयखण्डं सकृद्भवेत् इत्युग्राहध्रुवाविति। तत्राद्यं द्विरभ्यस्तमुद्ग्राहः । अथ सकृत्कृतं ध्रुवः । तौ कृत्वा स्वोद्ग्राहान्त्यदले स्वकीयोद्ग्राहान्त्यार्धे । अथवा स्वोद्माहे समस्त एवोद्ग्राहे वेत्यर्थः । मुक्तिनासो भवति तत्कवितं विदुरिति संबन्धः । अस्य कवितस्य ; अवच्छेद इति नामान्तरमन्ये प्राहुः । इह, कविते द्रुतं मानं भवेत् । प्राय उद्धता इति । उद्धतप्रचुरा इत्यर्थः । बाडुल्याद्दीप्तं नर्तनमिति । वर्णानुगुण्येनेति भावः ॥ -९७१-९७४ ॥ (क०) गड्दग्दगिनेत्यादिप्रस्तारो लक्षणानुसारेण द्रष्टव्यः । मेलापकाभोगहीनत्वादिदं द्विधातु वेदितव्यम् ॥ इति कवितम (५) Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy