________________
षष्ठो वाद्याध्यायः
४३९ उदाहोऽल्पो ध्रुवो नातिदीर्घः शुद्धादिनिर्मितः । स्याद्वर्णसरबद्धो वा छण्डणोऽन्ते यदा तदा ॥ ९७५ ॥ पदं वदन्ति वाद्यज्ञाः प्रायस्तद्दीप्तनर्तने । वादयित्वा यति मध्ये प्रबन्धस्य विमुच्यते ॥ ९७६ ।। पाटेन यत्र तत्प्रोक्तमपरैः सूरिभिः पदम् ।
यथा-तद्देहें तहें ततक्तदै । इत्युद्गाहः । तकट धिकट घिधिकिटधिकिटाड्दगधिकतक धिकथोंगटें । इति ध्रुवः । गत कटविधि कटधिक्किाडदगविधिकट धिकिरडाडगधिगकिग्डाहगयों? हंघिकयोंगटें । इति च्छण्डणः । इदमुदाहरणं वर्णताले ॥
___ इति पदम् (सु०) कवितं लक्षयति–नातिदीर्धमिति । शुद्धपाटादिनिर्मितं वाद्यखण्डं वर्णसरेण वा निर्मितं द्विर्गेयम् । तेन तत्सदृशमेव खण्डं सकृद्यं भवेत् । एवमुग्राहध्रुवौ गीत्वा उग्राहसहितेऽन्त्यखण्डे उद्ग्राहे वा यस्मिन् मुक्तिः तत्कवितम् ।। -९७१-९७४ ॥
इति कवितम् (५) (क०) अथ पदं लक्षयति-उदग्राहोऽल्प इत्यादि । ध्रुवो नातिदीर्घ इत्यनेन वस्योद्ग्राहापेक्षया द्विगुणदीर्घत्वं विवक्षितम् । ततोऽपि दीर्घत्वं निषिध्यते । शिष्टं स्पष्टम् । मतान्तरेण पदस्य लक्षणमाहवादयित्वेति । प्रवन्धस्य ; उक्तलक्षणस्य पदप्रबन्धस्य, मध्ये ; उग्राहध्रुवयोरन्तराले, उग्राहात्परं ध्रुवात्पूर्वमित्यर्थः । यति ; प्रथमोक्तं यतिप्रबन्धं वादयित्वा, पाटेन तत्पूर्वोक्तेषु हस्तपाटेषु येन केनचित्पाटेन विमुच्यते त्यज्यते यत्र तत्पदं प्रोक्तम् । उग्राहध्रुवकाम्यामिदं पदं द्विधातु ॥९७५-९७६-॥ (क०) तदेहें तद्देमिति प्रस्तारः ॥
इति पदम् (६)
Scanned by Gitarth Ganga Research Institute