________________
४३६
संगीतरत्नाकर:
प्रत्येकं द्विः प्रयुक्तेनोपशमेनान्तयोगिना ।
युक्तं खण्डत्रयं शुद्धैः कूटैः खण्डैश्च निर्मितम् ॥ ९६७ ॥ पाटैर्व्यस्तैः समस्तैश्च बद्धं वर्णसरेण वा । यस्यां स्याद्वादकस्थूल मिलत्कोलाहलाकुलम् || ९६८ ॥ छण्डान्ता रिगोणी सा दधती ध्वनिमुत्तमम् । अस्मुट्टवणं कार्य वैकल्पिकमुपक्रमे ।। ९६९ ।। दीनृते भवेदेषोपमा ललिता मता । ललितं णं तदा तल्ललिते भवेत् ॥ ९७० ॥ अन्त्यखण्डात्सोपशमाच्छण्डणाद्दीप्त नर्तनम् ।
1
( क ० ) अथ रिगोणीं लक्षयति-— प्रत्येकमित्यादि । द्विद्विवारं प्रयुक्तेनान्तयोगिना खण्डान्तसंबन्धेनोपशमेन युक्तम् । पुनः किंविधम् ? शुद्धैः कूटैः खण्डैश्च निर्मितम् । शुद्धास्तत्तद्वाद्यप्रतिनियता वर्णाः, कूटा: सर्ववाद्यसाधारणाः, अत्र खण्डशब्देन वर्णसमुदायावयवभूता उच्यन्ते, तैश्च निर्मितम् । व्यस्तैः समस्तैश्च पाटैर्नागबन्धादिभिर्बद्धं वर्णसरेण वा बद्धं प्रत्येकमेवंविधं खण्डत्रयं यस्यां स्यात् सा रिगोणीति संबन्धः । पुनः किंविधा ? वादक स्थूल मिलत्कोलाहलाकुलमुत्तमं ध्वनिं दधती मध्ये मध्ये वादको वाद्यध्वनिमेलनेन खलु कोलाहलं स्थूलध्वनिं करोति, तेन संकीर्णमुत्तमं सुखश्राव्यमित्यर्थः । तादृशं ध्वनिं दधती । छण्डणोऽन्ते यस्याः सा । अस्यां रिगोण्यामुपक्रम उट्टवणं वैकल्पिकं कार्यम् । एषा रिगोणी दीप्तवृत्त उद्धते भवेत् । उपशमाः खण्डान्तेष्वङ्गत्वेन प्रयुक्ताः | ललिते लास्यनृत्ये मताः । उट्टवणं यदि स्वयं ललितं तदोट्टवणं ललितनृत्ते भवेत् इत्यनेनोदृवणस्य कदाचिदुद्धतत्वमप्युक्तं भवति । अन्त्यखण्डादारभ्य सोपशमच्छण्डणे दीप्तनर्तनम्, उद्धतं नृत्तं प्रयोज्यमित्यर्थः ॥ ९६७–९७०-॥
Scanned by Gitarth Ganga Research Institute