________________
षष्ठो वाद्याध्यायः यथा-तथोह तथोह धियों२, हटे । थोंहदग थोहटें, इत्युदृवणमेकताल्यां पुनः पुनः । थोंटें दंदगेन थोंगटें में धिकतक, इत्युद्वाहः। प्रतिग्राहणा वोच्यते । अयं किलैकताल्यां कृतः । गड्दगत देंगगनग्दिहिक् । कथोंगतकधिक थोंगटेंहें थोदगक् । गिड्दक्योंगक्कयों ३, देंथोंहटगों ३, दें, इति त्रिरेकताल्यां खण्डः । केवलोऽप्ययं खण्डो गजर इत्युच्यते । गड्दक्योंगक्योंगक्कयोहरघट थरे, इत्येकताल्यां पुनः पुनरुपशमः । थोहटें, इति उडण्डणः । एतत्सर्वं नैरन्तयेंण वाद्यते ॥
इति गजर: (क०) प्रस्तार्य दर्शयति-तथोह तथोहेत्यादि । उग्राहं प्रस्तार्य प्रतिग्रहणा चोच्यत इत्युग्राहस्य संज्ञान्तरमुक्तम् । लोके हि तथा ताण्डिका वदन्ति । प्राकृतत्वेन ‘पडिघा' इति गजरावयवाः सर्वे वाद्यन्ते । ते निरन्तरा इत्युक्तत्वादत्रावयवत्वेनोक्तान्युपशमच्छण्डणोदृवणानि नैरन्तर्येण प्रयोज्यानि । अयं गजर उग्राहे ध्रुवाभ्यां द्विधातुको वेदितव्यः । उपशमादयः पृथक्प्रबन्धा अप्यङ्गत्वेन विहिताः प्रयुक्ताः । एवमन्यत्रापि द्रष्टव्यम् ॥
इति गजरः (३) (सु०) गजरं लक्षयति-कृत्वेति । एकवारमुद्ग्राहं गीत्वा, नातिदीर्घः, नाल्पः, वादकस्य भेदेन गम्भीरः उच्चध्वनि विदधानः कूटपाटैः पूर्वोक्तवर्णसरेण वा निबद्धः खण्डः त्रिवारमभ्यस्य, तेन वोपशमं मुहुविधाय, छण्डणः पूर्वोक्तो यत्र क्रियते असौ गजर: । अस्य आदौ पूर्वोक्तमुट्टवणं गेयम् । तच्चैकताल्या निःसारुकतालेन वा भवेत् । उपशमस्तु अन्यत्र तालेन वा भवेत् । अस्य तालनियमो नास्ति । सर्वेऽपि गजरावयवा गजरसंनिकृष्टा वाद्यन्ते ॥९६३-९६६ ॥
इति गजरः (३)
Scanned by Gitarth Ganga Research Institute