________________
४३४
संगीतरत्नाकर:
कृत्वैकवारमुद्ग्राहं नातिदीर्घो न चाल्पकः । वादको गम्भीरो ध्वनिमुच्चतरं दधत् ॥ ९६३ ॥ त्रिः खण्डोऽभ्यस्यते कूटबद्धो वर्णसरेण वा । मुहुर्विधायोपशमं छण्डणो यत्र रज्यते ॥ ९६४ ॥ गजरोऽसावुट्टवणं स्यादस्यादौ पुनः पुनः । एकताल्यामुट्टवणं तस्यां निःसारुकेऽथवा ।। ९६५ ॥ भवेदुपशमोsन्यत्र नास्य तालो नियम्यते । गजरावयवाः सर्वे वाद्यन्ते ते निरन्तराः ॥ ९६६ ॥
-
1
( क ० ) अथ गजरं लक्षयति — कृत्वैकवारमित्यादि । यत्र गजरे प्रथममेकवारमुद्गाहं कृत्वा । नातिदीर्घ इत्यादीनि खण्ड विशेषणानि द्रष्टव्यानि । कूटैः; पटहादिसाधारणैरक्षरैः, वर्णसरेण वा बद्ध उच्चतरं ध्वनिं दधत् । नातिदीर्घः; अत्यायतत्वरहितः । न चाल्पकः ; अतिह्रस्वत्वरहितः । वादको द्धोपगम्भीरः वादक इति तु स्वमुखेनैव पाटाक्षरोच्चारणपटुः तालधरो वा, पटहादिवाद्यवादको वा अभिधीयते । तस्योद्घोष उच्चारणे वादने वा घनध्वनिः, तेन गम्भीरः । एवंविधः खण्डस्त्रीवारमभ्यस्यते । उपशमम् ; उपशमाख्यं वक्ष्यमाणं वाद्यप्रबन्धं मुहुर्विधाय, यत्र छण्डणो रज्यते ; रागयुक्तः क्रियते चेत्, असौ गजरप्रबन्धः । अस्य गजरस्यादावुट्टवणं वक्ष्यमाणं पुनः पुनः स्यात् । तदुट्टणमेकताल्यां स्यात् । उपशमस्तस्यामेकताल्यामथवा निःसारुके भवेत् । अन्यत्रेति । गजराङ्गत्वादन्यत्र प्रबन्धान्तराङ्गत्वे स्वतन्त्रत्वेनेत्यर्थः । अस्योपशमस्य तालो न नियम्यते । अत्रैव तालनियम इत्यर्थः ॥ ९६३-९६६ ॥
Scanned by Gitarth Ganga Research Institute