________________
४३२
संगीतरत्नाकरः यथा-तद्धिटें कत्थोंकट नगनयोंगकुथोंगदार, धिक्कट्टर, तकटयोंगक घिधिक थोरघटे२, इत्युद्गाहो द्विवारं कर्तव्यः । गड्दगदे गिनर्देगक् तु थं हं देंगक् देंगनथ गनतदिगि नत्तत्तेक्कटदेंदेंगिनतक्कट खुखुघंघं देंगक् , इति देकारखण्डं द्विः ॥
तामाहुरित्यादिना। ये वेनामाहवनीमाहुस्तेषु केचन तस्या लक्षणमन्यथा जगुरित्युक्त्वा तदर्शयति-पार्बहलदेंकारैरिति । आदाविति । ओतायामादावुद्गाहखण्डात्पूर्व देंकारखण्डं प्रयुज्यते चेत्तदौता देंकारादिरित्युच्यते ॥ ९५६-९६२- ॥
(सु०) ओतां लक्षयति-द्विरिति । उग्राहो द्विवारं गेयः । ततो भूरिदेकृति बहुलीकृतदेंकारसहितं खण्डमपि द्विवारं गेयम् । द्वितीये वारे किंचिदधिकं गेयम् । ततस्तृतीयं दीर्घखण्डं शुद्धपाटैः कूटपाटैः खण्डपाटैः मित्रैः व्यस्तैः समस्तैः पाटै रचितम् । शुद्धपाटादिलक्षणं मर्दलप्रकरणे कथयिष्यति । एवं तृतीयखण्डानन्तरं पुनस्तदेव खण्डे देंकारयुक्तं सकृत्प्रयोक्तव्यम् । ततो वर्णसरसंज्ञकं दीर्घ खण्डम् । तत: शुद्धपाटादिनिर्मितमल्पं यस्यां सा ओतेत्युच्यते। तस्याश्रान्ते च छण्डणः कर्तव्यः । इयमोता देंकृतिमुक्तिकेत्युच्यते । एककलवत् चच्चत्पुटे च इयं कर्तव्या । निःसारौ ताले विरचिता इयमेव छण्डणो भवति । उद्धत इति । अस्यामुद्धतो ध्वनिः, विलम्बितं मानम् , विकृटं नृत्यं च । तामेतां केचित्केदार इत्याहुः । एके इमामाहवनीमाहुः । मतान्तरेणान्यथा लक्षयति-पाटैरिति । देंकारप्रचुरैः पाटैः सर्वैः तालयुक्ता स्थापना यस्यां, तामाहवनीमिहुः । आदौ देंकारो निबध्यते चेत्, तदा देंकारादिरित्युच्यते ॥ ९५६-९६१-॥
इत्योता
(क०) लक्षणानुसारेण प्रस्तार्य दर्शयितुमाह-यथेति । प्रस्तारस्तु
Scanned by Gitarth Ganga Research Institute