________________
षष्ठो वाद्याध्यायः
सकृत्तच्च प्रयोक्तव्यमथ वर्णसरात्मकम् ।
दीर्घ खण्डं ततोऽल्पं च प्राच्यं शुद्धादिनिर्मितम् ॥ ९५८ ॥ ओता सोता छण्डान्ता कैश्विकृतिमुक्तिका । everest स्यान्निःसारौ छण्डणो भवेत् ॥ ९५९ ॥ उद्धतो ध्वनित्र स्यात्मायो मानं विलम्बितम् । दीप्तं नृत्तं च तामाहुः केचित्केदार हत्यपि ॥ ९६० ॥ इमामावहनीं प्राहुरेकेऽन्ये त्वन्यथा जगुः । पाटैर्बहुलदेकारैस्तालैश्च निखिलैः कृता ।। ९६१ ।। बहुधा स्थापना यस्यामाहुराहवनीं बुधाः । आदौ देकारखण्डं चेदेंकारादिस्तदोच्यते ॥ ९६२ ॥
४३१
मिश्रितैर्व्यस्तैः समस्तपाटै रचितम् । कियद्दीर्घ - पूर्वखण्डापेक्षया किंचिद्दीर्घं भवेत् । ततः ; अनन्तरम् । कृतिमत्तच्च पुनः सकृत्प्रयोक्तव्यमिति । तृतीयखण्डानन्तरं द्वितीयं देकारखण्डं पुनः सकृदेकवारं प्रयुञ्जीतेत्यर्थः । कृतिमदिति द्वितीयखण्डमित्यत्र परामृश्यते । अथ वर्णसरात्मकमिति । अथ, अनन्तरं ; वर्णसरसंज्ञकमपरं दीर्घं खण्डं, ततोऽपि शुद्धादिपाटे : कार्यम् । छण्डान्तेति । छण्डणो नाम वक्ष्यमाणो वाद्यप्रबन्धभेदः । सोऽन्ते यस्याः सा तथोक्ता । कृतिमुक्तिकेति । प्रायो वाद्यप्रबन्धानां कारोऽन्ते विधीयत इति सामान्येन पूर्वमुक्तम् । तस्य मतान्तरेण कचिदपवादो दर्शितो भवति । एषा ओता एककलयुग्मे यथाक्षरचच्चत्पुटे स्यात् । छण्डण ओताङ्गत्वेन तदन्ते प्रयोज्यः । छण्डणो निःसारौ भवेत् । अत्र ; ओतायां प्राय: ; प्राचुर्येण, उद्धतो ध्वनिः, घोषाक्षरजनितो ध्वनिः, विलम्बितं मानं च दीप्तं नृत्तं च स्यात् । अस्या एवौताया मतान्तरेण संज्ञान्तराणि दर्शयति
Scanned by Gitarth Ganga Research Institute